पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उत्तररामचरिते

सरखतीदेवी कं वा ब्रह्माण व वन्देमहि च प्रणमाम च । क्रियाद्वयसमुच्चायकश्च कारः चन्दनक्रियानिरूपितकमद्वयसमुच्चायकस्तु वाशब्दः--इलादि, तन्न । व्यवहितान्वयान् । 'चत्राष्टभिर्वादशभिरष्टादशभिरेव वा। द्वाविंशत्या पदैर्वापि सा नान्दीति प्रकीर्तिता ।।' इत्यत्र चतुर्दशपदानुक्तेश्च । अन्ये तु-'पूर्ववदेव पदानि । इदं नमो मा पूर्वेभ्यः, कविभ्यः कं प्रशास्महे । तां बाणी बन्देमहि' इत्यन्बयमुक्त्वा 'इदं नमो वा पूर्वेभ्यः, कविभ्यः अन्यं के प्रशास्महे । तामेव वाणी वन्देमहि । इतः प्राचीन नमः पूर्वकविभ्यः । अन्चं प्रति न कृतमेव । इदं वा तदन्यं वा के प्रति प्रशास्महे इत्यर्थः' इति वदन्ति, तदपि न । प्रतीत्यध्याहारापत्तेः । नच 'शासिदुहिरुधि-' इत्यादिना द्विकर्मकत्वं माणवक धर्म शास्तीत्तिवत् इति वाच्यम् । तत्र 'शासु अनुशिष्टौ' इत्यस्यैव ग्रहणाच्च । नच 'तदेवेदम्' इति वाच्यम् । तस्य परस्मैपदित्वात् अर्थासंगते च. कारखावधारणार्थकत्वाश्रचक्लेशाद् पदनियमासिद्धेश्च । यदप्युक्तम्-'पूर्वेभ्यः कविभ्यः इद नमः इत्येकं वाक्यम्, अन्यं वा कं प्रशाम्महे इत्यपरं वाक्यम्, प्रशास्महे वाचमि- च्छामः इत्यर्थः' इति, तदपि मन्दम् । एकवाक्यत्वसंभवे बाक्यभेदस्यान्याय्वत्वात्कवेयवाक्त्वेन वागिन्च्छाया असंभवाच त्रयोदशपदत्वापत्तेश्च । यदपि चोतम्'इदकविभ्यः इदानींतनकविभ्य पूर्वेभ्यो वा पूर्वकविश्वश्च नमः प्रणासं कं शिरसा प्रशास्महे । ‘क शिरोम्बुनोः' इति मान्ताव्ययत्वात् तृतीयार्थलाभ.' इति, तदपि न । पूर्वेभ्य इत्यत्र कविभ्य इत्यध्याहारापत्तेः कविभ्य इत्येताबन्मानोक्तौ उभयकविलाभे निदेशव्याश्रयणे प्रयोजनाभावात् । भात्रिकविद्वेषे मूलाभावात् । त्रयोदशपदत्वापत्तेश्च । थचोक्तम्-'पूर्वेभ्यो नमः इदकविभ्यः क वा सुखं वा प्रशास्महे प्राचीनकृविभ्यो नमः प्रशास्महे इदानींतत्तविभ्यः सुख प्रशास्महे' इति, तन्न । ऋमिकैकान्व्यालाभात् पूर्वोत्तदोपाच । यतूक्तम्-पूर्वेभ्यो वा पूर्वकविभ्य इव इदकविम्य इदानींतनकविभ्यः नम इत्येकं वाक्यम्, कं वा प्रशासहे इसपरम् , सुख इच्छामः इति तदर्थः' इति, तन्न । विघ्नध्वंसस्पैचापेक्षितत्वेन सुखप्रार्थनाया असांगत्यात् पूर्वदोषप्रसङ्गाय । केचित्तु-'पूर्वभ्य. वैदिकेश्वः कविभ्यः गजाननाय । 'गणानां त्वा गणपति हवामहे' इति श्रुते । 'कविः शुक्रगजाननौ इति, तन्न । बहुवचनस्वारस्यात् । पूजायां बहुत्वस्व गुरुपित्रादिषाचकशब्देभ्य एव दर्शनात् । किचात्र गजाननस्व प्राचेतसादिसाधारणकान्तदर्शित्वरूपकवित्वेन कविपदादुपस्थितिनं शक्या। सामान्यशब्दस्य चिशेपव्यवस्थापकाभावात् पूर्वेभ्यः इत्यस्य च साधारणत्वात् न तद्वयवस्थापकम् । 'कविः शुक्रगजाननौं' इति कोशाग जाननत्वेन तदुपस्थितिरपि न शंषया । पूर्वशब्दवैयर्थ्यापतेः । नापूर्वः कश्चिद्गजाननोऽस्ति येन तद्वथावृत्त्या तत्सार्थक्य स्यात् । 'संयोगो विप्रयोगश्च साहचर्य विरोधिता' इत्यारभ्य 'शब्दार्थस्यानबच्छेदे विशेषे स्मृतिहे- तवः' इत्युक्तरीला शुकादिन्यवच्छेदकत्वपूर्वकं गजाननोपस्थापकप्रकरणाद्यभावाच । नच बकुरपि संयोगादिप्रमाणेच्वन्यतमत्वेन परिगणनात् भवभूतेश्च मालीनाथवे 'वैनायक्यश्चिरं वो वदनविधुतयः पान्तु' इत्युक्त्या विनायकभक्तत्वावगमात् अत्राणि तत्परत्व युक्तमिति वाच्यम् । तस्य महावीरचरिते परित्यागात् । अत्र औचित्यल्पदुर्वलप्रमाणमवष्टभ्य बहुवचनश्रुतेः पूजालाक्षणिकत्वस्यान्याथ्यत्याच । यत्तु तेनैवोक्त-