मुरला---इयं हि सा
किसलयमिव मुन्धं बन्धनाद्विप्रलून
हृदयकमलशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिज इव धर्मः केतकीगर्भपत्रम् ॥५॥
(इति परिक्रम्ब निष्वान्ते)
इति शुद्धविष्कम्भः।
(नेपथ्ये ।)
जात जात।
(ततः प्रविशति पुष्पापचययना सकरुणौत्सुक्धमाकर्णयन्ती सीता)
सीता अम्हहे, जाणामि पिअसही वासन्दी बाहरदित्ति ।
(पुनर्नेपथ्ये ।)
सीतादेव्या स्वकरकलितैः सल्लकीपल्लवा…-
रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् ।
सीता - कि तस्स।
(पुनर्नेपथ्ये ।)
वध्दा सार्ध पयसि बिहरन्सोऽयमन्येन दर्पा-
दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः ॥ ६॥
१. अहो, जानामि प्रियसी वासन्ती व्याहरतीति
२. किं तस्य ।
पादिरूपा ॥ ४॥ किसलयमिति । परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लावगाविरोधिपाण्डतोला । ग्रीष्मविरहतापचोरयनेव विशेषः । यत् श्रीष्मस्य लावण्यनाशकखम् , विरहस्य तु तदभाव इति । तथा च कालिदासः---'समस्तापः कार्म मनसिजनिदाघप्रसरयोर्नतु ग्रीष्मस्यैवं सुभगदपराद्ध युदतिषु इति । एवं सुभगं न । एवं लावण्यापरित्यागेन रमणीयं न भवतीत्यर्थः । तथाह भगवान वाल्मीकि:-'ज्योत्ला तुषारमलिना पौर्णमास्था हि लक्ष्मण । सीतेव चातपश्यामा दृश्यते न च शोभते ॥' इति । श्रीमसातपश्यामेति लावण्यनाशकत्वम् । क्षामं कृशं ग्लपयति म्लान करोति । शरदिजः शरत्कालजः। 'प्रावृद्ध शरत्' इत्यादिसूत्रेणालुक् । अत्र लिझाद यूहनरूपं अनुमानं नाम संध्यगमुक्तम् ॥५॥ शुद्धविष्कम्भ इति । संस्कृतात्मकविष्कम्भ इत्यर्थः । विष्कम्भखरूपं तु.---'वृत्तवर्तिक्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्र प्रयोजितः ॥' इति । केबलसंस्कृतशयः शुद्ध इति ॥ व्याहरति वदति ॥ सीतेति । स्वकरकलितैः