पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
उत्तररामचरिते

  मोहे मोहे रामभद्स्य जीव
   खैर खैरं प्रेरितैस्तपेयेति ॥२॥

 तमसा---उचितमेव दाक्षिण्यं स्नेहस्य । संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः ।

 मुरला--कथमिव ।

 तमसा-तत्सर्वं श्रूयताम् । अस्ति खलु वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंबेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महःगङ्गादेव्या समपितं खयम् ।

 मुरला--(सविस्मयम् ।)

  ईदृशानां विपाकोऽपि जायते परमाद्भुतः ।
  यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥

 तमसा-इदानीं तु शम्बूकवृत्तान्तेनानेन संभावितजनस्थानं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया लेहादभिशङ्कितं तदेवाभिशङ्कय सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता।


नेन शैल्यमुक्तम् । पनकि मल्कगन्धानित्यनेन सौरभ्बमुक्तम् । आकर्षद्भिरित्यनेन भान्धमुक्तम् । वहनाशकावेव कर्षणसंभवात्। खैरं निःशङ्कम् । अन्न खैरमित्युक्त्या सुरभिशीतलमृदुवाता अपि विरहिणामनधकारिण इति न शङ्करम् । विरहिणां चैतन्यदशायामेव दुःसहा इमे । भूच्छितानांतु प्राणप्रतिष्ठापन करा एव । नातस्त्वयातिशङ्का कर्तव्येत्रि व्यज्यते ॥ २ ॥ उचितमिति । दाक्षिण्यं साथै ऊहापोहात्मकज्ञानबत्त्व वा। मूलतः । सीतारात् मूलमिति सीतोच्यते । मौलिक इति पाठेऽप्यर्थः प्रागिव ॥ वाल्मीकीति । प्राप्तप्रसववेदनं जातप्रसवदुःखम् । आत्मानं खम्। दारकद्वयं शिशुव्यम् । प्रसूता प्रसूतवती। अभ्युपपन्ना संगता । स्तन्यत्यागात् परेण स्तन्यत्यागानन्तरम् ॥ ईशानामिति । विपाकः दशा ।' उपकरणीभावमुरकरणत्वम् ॥३॥ इदानीं स्विति । उपश्रुत्याकZ । तत् सर्व श्रूयतामित्यारभ्य ऋषियोवितरणरूपबीजस्य अन्वेषणात् गर्भसंधिरयम् । 'गर्भस्तु दृष्टनष्टस्य धीजस्यान्वेषणं मुहुः' इत्युक्तेः । केनचिदिव गृहाचारब्धपदेशेनेत्यत्र प्रस्तुतोपयोगिच्छमाचरणरूपं अभूताहरण नाम