पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीथोऽङ्कः

(ततः प्रविशति नदीद्वयम् ।)

 एका--सखि मुरले, क्रिमसि संभ्रान्तेव ।

 मुरला-सखि तमसे, प्रेषितास्मि भगवतोऽगस्त्यस्य पल्या लोपामुद्रया सरिद्वरां गोदावरीममिधातुम् । जानास्येव यथा बधूपरित्यागात्प्रभृति

  अनिभिन्नो गभीरत्वादन्तगूढधनव्यथः ।
  पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥१॥

तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोऋसंतानेन संपति परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविलम्भसाक्षिणः प्रदेशा द्रष्टव्याः । तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि, त्वया तत्रभवत्या सावधानया भवितव्यम् ।

  वीचीवातैः शीकरक्षोदशीतै-
   राकर्षद्भिः पद्मकिञ्जल्कगन्धात् ।


वधूपरित्यागात् नुषापरित्यागात् । अनिर्मिन्न इति । करुणो रसः इष्टजनबियोगजन्यदुःखातिशयात्मकरसः पुटपाकप्रतीकाशः लोहादिमयसंपुटान्तर्वर्तिसंतापनसदृश इत्यर्थः॥१॥ तेनेति । तथाविधेष्टजनस्य सीतायाः कष्ट विनिपातात् दुःखमयविक्षपात जन्म उत्पत्तिः यस्य तथोक्तन । प्रकृष्टोऽधिकः गद्गदः गद्गदशब्दः येन तथोक्तेन । 'प्रकर्षगद्गदेन' इति पाठे प्रकर्षण गद्गदो चस्मिन्निति विग्रहः । दीर्घशोकसंतानेन दीर्घदुःखपरिचाहेण परिक्षीणः कार्यदौर्बल्यादियुक्तः । कुसुमेन समै बन्धन यस्येति विग्रहः कुसुमसमबन्धनम् । तद्वत् सुच्छेदमित्यर्थः । अधुनेति । वधूसहनिधासे थे विनम्भाः खैरलीलाः तत्साक्षिणः तत् साक्षात्कारः प्रदेशाः वनोद्देशाः नियतमित्वसंदेहवाचि । तत्रेति । गम्भीरः आभोगः आयामः यस्य तथोक्तः यः शोकः तेन जातस्य क्षोभस्य प्रकृतिविपर्यासस्य संवेगात् वेगातिशयातू । महान् प्रमादः अनवधानता येषु तथोक्तानि । संझाच्छेदकारीणीत्यर्थः । शोकस्थानानि जगतां शोकनिमित्तानि । रामात्साहितानीति भावः। सावधानया अवधान मनसो विषयान्तरसंचारविमुखता तत्सहितया ॥ धीचीति । शीकराणां क्षोदैः सूक्ष्मांशैः । पद्मकिअल्कानां अरविन्दकेसराणां गन्धान सौरभ्याणि आकर्षद्भिः हरद्भिः । शीकरक्षोदेत्य-