राम:-
एतत्पुनर्बनमहो क्रथम दृष्टं
यस्मिन्नभूम चिरमेव पुरा वसन्तः ।
आरण्यकाश्च गृहिणाश्च रताः स्वधर्मे
सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥
एते त एव गिरयो विस्वन्मयूरा-
तान्येव मत्तहरिणानि वनस्थलानि ।
आमनुवचुलरुतानि च तान्यमूनि
नीरन्ध्रनीपनिचुलानि सरित्तदानि ॥ २३ ॥
मेघमालेव यश्चायमारादिव विभाव्यते ।
गिरिः प्रसवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥
अस्यैवासीन्महति शिखरे गृधराजस्य वास-
स्तस्याधस्ताद्वयमपि रतास्तेषु पोटजेषु ।
गोदावर्याः पयसि विततानोकहश्यामलश्री-
रन्तः कूजन्मुखरशकुनो यत्र रम्यो बनान्तः ॥ २५ ॥
अत्रैव सा पञ्चवरी यन्त्र निवासेन विविधविसम्मातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापतितमद्य रामस्य । संप्रति हि ।
चिराद्वेगारम्भी प्रसृत इब तीब्रो विषरसः
कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः ।
लोकाननुभवितुम् ॥ एतदिति । हिणः गृहमेधिनः । सांसारिकेषु जन्मफलभूतेषु ॥२२॥ एत इति । विरुवन्मयूराः कूजहिणः ॥२३॥ मेघमालेति ! मेघमालेद मेघमालासदृशः यः अय पुरोधर्तिपदार्थः आरादिच समीपस्थ इव विभाब्यते ज्ञायते । यत्र गिरौ गोदावरी नदी सः प्रस्रवणो गिरिः ॥२४॥ अत्यैवेति । मुखरशकुनः कूजत्यक्षियुक्तः अत एव अन्तः कूजन ख्य कूजन्निव स्थितः ॥२५॥ यत्रेति । विस्खम्भाः खैरविलासाः । चिरादिति । तीवः स्पर्शदशायामपि दुःसहः । अनेन अज्ञातस्पशविषविशेषज्यावृत्तिः । चिरात् भूयांसं कालं शमित्वा । चेगा वेदनाशै घ्य आरम्भयति उत्पादयतीति वेगारम्भी । अनेन पूर्वोक्तविषविशेषव्यावृत्तिः। प्रसूतः यत्रामुल्यादौ स्पर्शः ततोऽन्यत्र सर्वाजेषु प्रसृतः दलनादिना दुःसहप्रसरणः यः विपरसः तत्सदृश इत्यर्थः । रसशब्देन विशेषोत्कर्षों विवक्षितः । कुतश्चित् यस्मात् कस्साचित संवेगात् संभ्रमा-