पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः।

नातू रामलक्ष्मणशत्रुघ्नानां त्रयाणामेत्र कथांशोपयोगित्वेनात्र बहुवचनस्य कपिजलाधिकरणन्यायेन नित्वपर्यवसानमव्याहतम् । कविभ्य इबनेन यथा कविषु बाल्मीकेराद्यत्वेन प्राधान्यम् । अन्येषामानन्तर्यादप्राधान्यम् । एवं तत्सूचितवण्यांनां मध्ये रामचन्द्रस्य वर्णनाया ज्येष्ठत्वेन प्राधान्चं लक्ष्मणादेश्चाप्राधान्यमिति सूचितम् । एव च नानेकनेतृत्वप्रयुक्तनाटकबहानिः । अतएव लक्ष्मणशत्रुघ्नयोरुवसर्जनत्वावगमात् । सीता- परित्यागे लक्ष्मणप्रेषणस्य लवणवधार्थ शत्रुघ्नप्रेषणस्य च ध्वननात्प्रथमावार्थः सूच्यते । उत्तराधै प्राज्ञी काचन स्त्री वर्धत इति सूचितम् । आत्मनः कलामित्यनेन तस्या देवतांशसंभवत्वं कस्यचिद्धर्मपत्नीत्वं च सूच्यते । 'अधौ वा एष आत्मनो यत्पत्नी' इति पत्न्या अवयवखोपचारात् । कलाशब्दस्यावयादवाचित्वात् । अतएव नायकस्यापि देवतांशसंभवत्वं सूच्यते । देवतांशसंभूतस्त्रियं प्रति तादृशस्यैव नाचकस्यौचित्लात् । अमृतामिति मरणस्य प्रसक्तिपूर्वकप्रतिषेधाद्गलापतनसंभावितस्य सीतामरणस्य गमाथिवीभ्यां सह तदागमनेन भावनिश्चयरूपो द्वितीयाप्रभृतिसप्तमाकान्तार्थः सूच्यते । नमस्कारसमुचयेन समप्राधान्यावगमाच्छाकुन्तलादाविव नासाध्याया वर्णत्वम् । अपि तु साध्याया एव वर्ण्यत्वमिति सूच्यत इति सुधियो विभावयन्तु । अस्य श्लोकस्य योजनान्तरमपि---इदमित्यादि । 'इदंकविभ्यः' इत्येक पदम् ! 'नमः' 'वाकम्' इति च पदद्वयम् । एतेन द्वादशपदत्यसिद्ध्या न नान्दीनियमहानिः । अयमर्थ:--पूर्वेभ्यः प्राचीनेभ्य इदकविभ्योऽस्या बुद्धिस्थरामकथायाः कविभ्यः । रामकथासंवन्धिकविभ्य इत्यर्थः । वाल्मीकिवसिष्ठादिभ्य इति तदर्थः । कथाया बुद्धिस्थत्वात् 'पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेय कथा' इत्युपसंहारे वक्ष्यमाणत्वाच्च इदंशब्देन परामर्श इत्युपपन्नम् । प्राथमिककथादर्शित्वरूपमुपकारं ख्यापयितुं पूर्वेभ्य इत्युक्तम् । कथान्त रकविनमस्कारे प्रयोजनाभावात् इदंकविभ्य इत्युक्तम् । उच्यतेऽनेनेति वाकमुक्तिसाधनीभूतम् । कवर्चश्यवाक्त्वेऽपि पारिप्सितग्रन्यसमाप्तौ कविनमस्कारस्य साधनत्वे तात्पर्यम् । करणे धञ् । तस्य चोपदेशाप्रवृत्तावित्यत्रैव बाहुलकत्वम् । अन्यथा ल्युटा भाव्यम् । 'संज्ञायामिति न्द प्राचिकम्' इत्युक्तत्वान्न दोषः । यद्वा उच्यते यत्तद्वाकम् । कर्मणि धन् । 'अकर्तरि च कारके' इत्यनुशासनात् । बाचिकं नमः प्रशास्महे इच्छामः निर्दिशाम इति वा । तां पूर्वोपस्थितां प्रवृत्तिनिमित्तविधयायाः कविपदेनोपस्थितेः । अमृतामानुपूयौन्नित्याम् । शब्दस्य निलत्वपक्षे स्वरूपेण नित्यामित्यर्थः । यद्वा अमृत मोक्षस्तदस्या अस्तीत्वमृताम् । मत्वर्थीयोऽप्रत्ययः । तेन स्त्रीत्वोपपत्तिः। प्रयोजकलार्स'बन्धेन मोक्षवतीमित्यर्थः । रामायणादिना मोक्षप्रयोजकत्वं च 'एकैकमक्षरं प्रोक्तं महापातकनाशनम्' इति स्फुटम् । अत्र हेतुमाह-आत्मनः कलां परमात्मप्रतिपादकविद्याम् 'विद्यायां कालभेदे च मुक्तौ शिल्पे कलेति च' इति वैजयन्ती । रामाअगादिकं परमात्मप्रतिपादकत्वं च वेदवेद्ये परे पुसि' इत्यादी स्पश्टम् । रामायणाध्यात्मसमावणरूपां वन्देमहि प्रणमाम । विवयमङ्गलव्यसग्रहो विजयते' इति बालरामायणनाटके स्फुटम् । अस्या योजनायां पूर्ववत्काब्धार्थसूचन बोद्धव्यम् । केचिन-'इदम्' इति भिन्नपदम् 'नमः वा क' इति च पदत्रयम् । कदिभ्यः इदं नमःप्रशास्महे इत्यन्वयः । वाशब्दः समुच्चयार्थः । कमित्यस्य ब्रह्माणमित्यर्थः । एव च वाणी