पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
द्वितीयोऽकः ।

  रामस्य बाडुरसि निर्भरगर्भखिन्न-
   सीताविवासनपटोः करुणा कुतस्ते ॥ १० ॥

(ऋथचित्रहल।) कृतं रामसदृशं कर्म । अपि जीवत्स ब्राह्मणपुत्रः ।

(प्रविश्य )

दिव्यपुरुषः-जयतु देवः ॥

  दत्ताभये त्वयि यमादपि दण्डधारे
   संजीवितः शिशुरसौ मम चेयमृद्धिः ।
  शम्बूक एष शिरसा चरणौ नतस्ते
   सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥

 रामः-द्वयमपि प्रियं नः । तदनुभूयतामुग्रस्य तपसः परिपाकः ।

  अत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः।
  वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥

 शम्बृकः-स्वामिन् , युधमत्प्रसादादेवैष महिमा । किमत्र तपसा । अथवा मदुपकृतं तपसा ।

  अन्वेष्टव्यो यदसि भुचने लोकनाथः शरण्यो
   यामन्विप्यन्निह वृषलकं योजनानां शतानि ।


इद चिन्यम्-'दुरावानं वधम्' इसारभ्य एतान्युद्वेगकारित्वात प्रयोगानुचितानि' इति तनिषेधात् । अत्रानिष्टवस्तुविक्षेपात् विधूतम् । कृतमिति । रामसदृश कर्म, न 'तु दशरथसहशं कर्म । दशरथो ह्ययुद्धिपूर्वक शुगतापसवध कृतवान् । तथा च पितुः शतगुण पुत्रः' इति न्यायेन दोषविषय एव, न तु गुणविषय इति स्थोपालम्भ इह व्यज्यते । अपि जीवेदिति अपिः संभावनायाम्। अशरीरवाण्या शिशुजीवननिश्चयेऽपि 'पावकवचनेन सीतायाः निवत्वनिश्चयेऽपि फलाभाववत् खीयदैवविपर्वयेणात्रापि तथा स्थादिलाशयः॥ प्रविश्येति । दिव्यपुरुष. शम्बकशरीरे विहाय देवत्वेनेति भावः। दत्ताभय इति । यमादपि दत्ताभये त्वयि दण्डधारे सतीत्यन्वयः । ग्रमहेतुकभयनिवारणदातरि यमरासितरि त्वयि सति असौ शिशुः बुद्धिस्थो ब्राह्मणशिशुः । निधनानि "मरणानि तारयन्ति । संसाराविधमिति शेषः ॥ ११॥ तदिति । परिपाक; फलभूतः अनुभूयताम् । यत्रेति । आनन्दाः भात्मानुभवजन्याः हाः । मोदाच दिव्य विषयानुभवजन्या हपः। संपदः अणिमादिविभूतयः । वैराजा नाम राजा इति प्रसिद्धाः॥११॥ युनत्यूलादेति । धातुः प्रसादान्महिमानमीदृशम्' इति श्रुतिः प्रत्यभिज्ञायते । किन तपसा । तपस्ता क्रिमनेलधः । अथवेति । तपःकर्तृको महोपकार इति भावः । तदुपपादयतिवेपत्य इति । यदसीति प्रसिद्धवनिर्देशात् 'सोऽन्वेष्टव्यः' इति श्रुतिः प्रत्यभिज्ञायते । अनेन कारणत्वमायुतम् । 'कारण तु ध्येयः' इति श्रते. । न