पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
उत्तररामचरिते

  छायापस्किरमाणविकिरमुखव्याकृष्ट कीटत्वचः
   कूजत्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ९ ॥

(इति परिक्रम्य निकान्ते ।।

इति शुद्धविश्कामः।


(ततः प्रविशति सदयोचतखको रामभद्रः।)

 राम:-

  हे हस्त दक्षिण मृतस्य शिशोद्धिजस्य
   जीवातवे विसृज शूद्रमुनौ कृपाणम् ।


पिण्डाकारगजकपोलानां कषणेन संघटनया आकम्पेन अत्यर्थचलनेन संपतन्तीति संपातिनः तथाविश्वैः । धर्मेण निदाघौघण्येन वसितबन्धनैः शिथिलितन्तैः । छायायां अनातपे अपस्किरमाणाः भक्षार्थ चच्या भूनि लिखन्तः । 'किरतेहपजीविकाकुलायकरोध्विति वाच्यम्' । 'अपाच्चतुष्पाच्छकुनिध्यालेखने' इति सूत्राभ्यां तड्सुटौ । तथाविधानां विकिराणां बायसादीनां मुखैः व्याकृष्टा कीटत्वक् येषामिति विग्रहः । कपोताः पारावताः कुकुटाः वरणायुधाश्च ते कूजन्तः क्लान्ताश्च येध्विति विग्रहः । कूले । तीरवर्तिन इत्यर्थः । कुलायनुमाः पक्षिनीडयुक्तद्रुमाः स्वकुसुमैः गोदावरी अर्चन्ति पूजयन्ति इति संबन्धः । अत्र वृक्षवर्णनया वैदिकशिरोमणीनां गृहमेधिनां मध्याहकालवतान्तः प्रतीयते । कण्डूलेल्यादिविशेषणेन द्रव्याणां दुल्हशास्त्रार्थसंदेहनिर्णयार्थमुपसन्नैः तैः तत्कृतोपदेशनिवृत्तसंशयतया संतुः भूमिप्रतिभिः समर्पितखे प्रतीयते । धर्मसंसितैरित्यनेन तेषां 'कषाये कर्मणि पक' इति निवृत्तकामलोभादितया द्रव्याणां देवताराधनतथा प्रतिहतप्रदान प्रतीयते । छायापस्किरमाणेलनेन तेषां गृहेषु अतिथयः स्वयमागल्स भोज्यानि भुअत इति प्रतीयते । कूजत्लान्तेलनेन तेषां मध्याहकालप्रयुक्तश्रान्तियुक्त- नानाशाखाध्येतनानाबटुसमाजकल्यं प्रतीयते । कुलायेसनेन तेषामनेककुटुम्बभरणं प्रतीयत इति सहृदया दयां कुर्वन्तु॥अत्र कुसुमपतनस्य गोदावरीपूजावोत्प्रेक्षा कृता । सा च गम्या वाचकशब्दप्रयोगाभावात् । तस्य भगवतः केनापि इल्यारभ्य 'अयमध्ययनप्रत्यूहः' इत्यन्तेन अष्टावक्रप्रवेशात् लक्ष्यस्य सीतावनप्रापणेनालक्ष्यस्य बीजस्सोद्भेदात् प्रतिमुन्नसंधिरिचम् । 'लक्ष्यालयसा बीजस व्यक्तिः प्रतिमुख मतम्' इति लक्षणात् । 'अप्येतत्तपोवनम्' इत्यारस्य दृष्टनष्ट पदार्थानुसरणरूपपरिसर्प उक्तः । 'हा रामभद्र' इति प्रमुखनिघुरवचनरूप वज्रमुक्तम् । 'सीताप्रतिकृतिः' इत्यादिनानुरागप्रकाशनरूपप्रगम उक्तः । 'वज्रादपि' इत्यत्रारत्युपशमनात्मक शम उफः। 'विसृष्टश्च वामदेवानुमन्त्रितः' इत्यारभ्य 'जनस्थान एज तपश्चरति' इत्यन्तेन ब्रह्मक्षत्रियशूद्राणां कीर्तनात् वर्णसंकर उफः । इय चूलिका । तदुक्तम्-'नेपथ्यान्तःस्थितैः पाथलिकार्थस्य सूचनम्' इति॥९॥उद्यतः उन्नमितः॥ हे हस्तेति । दक्षिणहस्त अपसव्यहस्त, कृपाणं खनं शद्धमुनी विलज विमुञ्च ।निर्भरः पूर्णः । विवासनं निष्कासनम् । पटोरित्यनेन "छपना परिददामि' इत्येतद्विवक्षितम् । अत्र विश्वलंकारः॥१०॥प्रहल प्रक्षिप्येत्यर्थः ।