पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
द्वितीयोऽकः ।

 आत्रेयी--विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः । प्रलप्ताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदि- व्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुमहितः।

 वासन्ती (सहर्षकौतुकास्त्रम् ।) कुमारलक्ष्मणस्यापि पुत्र इति मातर् , जीवामि ।

 आत्रेयी--अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्धोषितम् । ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचर-

  त्शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
  शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८ ॥

इत्युपश्रुत्य कृपाणपाणिः पुष्पक्रमधिरुह्य सर्वो दिशो विदिशश्च शुद्धतापसान्वेषणाय जगत्पतिः संचार समारब्धवान् ।

 वासन्ती -- शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलकुर्यात् ।

 आत्रेयी-भद्रे, गम्यतेऽधुना।

 वासन्ती-आर्ये आत्रेयि, एवमस्तु । कठोरश्च दिवसः ।

  कण्डूलद्विपगण्डपिण्डकपणाकम्पेन संपातिभिः
   धर्मस्रसितवन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् ।


तस्याः प्रतिकृतौ क्रिया ॥ इति स्मरणात् । प्रतिकृतिकरण मृदुत्वानुपपादकमिति वाच्यम् । तस्य परिणयान्तराशक्तनिरवाशक्रिया विषयत्वात् । अश्वमेधादेः सावकाशत्वात् परिगवान्तरशक्तत्वात् । किंच सीतासदशप्रतिमाकरणं मृदुत्वापादकमेव । एतादृशविचारसाध्यत्वात् 'को हि विज्ञातुमर्हति' इति तज्ज्ञानत्वपचोग्यतापि दुर्लभेत्युक्तम् । अत्राथान्तरन्यासालंकारः॥७॥वामदेवेन अनुमन्त्रितः अनुज्ञातः।वसिष्ठासंनिधानादिति भावः। मे ग्राश्वः बझीवाश्वः । अकुप्ता इति यश्चाशानं शास्त्रोक्तन्यायेन । तेषामिति 'चतुःशता रक्षन्ति यज्ञस्याघातये' इत्यादिश्रुतिमनुलसथ अधिष्यता नियामकः अनुप्रहितः । अत्रान्तर इति ।अब्रह्मण्यमिति वचनम् उद्घोषितं उवैरुचारितम् तित इति । राजापचार राजदोषम्। निरूपयति मीमांसमाने । करुणामये परदुःखदुःखित्वरूपानुकम्पाप्रचुरे उद्वरत् उगतवती ॥ शम्बूक इति । तपः तप्यते तपश्चरति । 'तप ऐश्वर्थे वा' इति तड् । दिवादित्वात् श्यन् । शीर्षच्छेद्यः शिरच्छेदाईः । 'शीर्षच्छेदाद्यन्' इति यत्प्रत्ययः । दिशः प्राच्यादयः, विदिशः आग्नेम्यादयः ॥ अपि नामेति अलंकुदित्यनेनान्वयः । संभावनायामपिशब्दः ॥ कण्डलेति । कण्डूलानां कण्डूमतां द्विपगण्डपिण्डाना