पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उत्तररामचरिते

मिति च विधेयसमर्पक विशेषणवाचकं च । तथा च इद प्रारिप्सितग्रन्थादी चिकीर्षितत्वेन बुद्धिस्थ मङ्गलं पूर्वेभ्यः कविभ्यो ननोवाकं प्रशास्महे । पूर्वकालप्रसिद्धनाचेतसादिकविविषयकनमउतिं निर्दिशामः-इति वाक्यार्थः । 'प्रशासनं तु निर्देशः' इति कोशः । आशासु इच्छायाम्' इति धातोः अपूर्वकत्वं प्रायिकमित्युक्तेः प्रपूर्वकस्वेनेच्छार्थकत्व च । 'नमउक्तिर्ननोवाक.' इति कोशः । भावे घञ् । कुत्वम् । एत मङ्गलोद्देश्यकपूर्वकविविषयकनमडक्ति विधेयकबोधजनकशब्दप्रयोगवानहम्, एतन्मगलोद्देश्यकपूर्वकविविषयकनमोवाकविधेयकेच्छावानहम्, इत्यन्वयबोधः । नमोवाकमिल्यतैकदेशनमःशब्दापेक्षया कविभ्य इति चतुर्थी । 'नमःखरित--' इत्याद्यनुशासनात् । अत्र नान्दीप्रभृतिप्रशस्तिरूपचरमाङ्कपर्यन्तस्य कर्तव्यस्य बुद्धिस्थत्वेऽपि प्रत्यासत्तिन्वायानमोवाकमिति विधेयानुसाराच मङ्गलसौव इदंपदेन विवक्षा । इदमिति त्र सामान्ये नपुंसकम् । नमोवाकमिति तु पुंलिङ्गम् । तथा च-शुक्ति रजतं जानातीयादाविव विशेष्यनिन्नत्वाभादेन समानलिहत्वाप्रसक्त्या न तद्वाधरूपदोषः । इदं नमोवाकमित्यत्र नमोवाकमित्वस्य विशेष्ववाचकत्वमभ्युपगम्य तद्विशेषणवाचकस्य इदंपदस्य सामान्ये नपुंसकत्वाश्रवणे तु विशेष्यविशेषणवाचकपदयोः समानलिनत्वं बाधितव्यम् इत्यस्वारस्यम् । इदंपदप्रयोजनं च मृग्यं स्यात् । उक्तरीत्याश्रयणे तु मालतीमाधबादौ भन्यादृशमङ्गलेच्छायामपि एतनाटककर्तव्यमङ्गलं पूर्वकविविषयकमनोवाकमिच्छाम इत्यर्थलाभेन सप्रयोजनत्वम् । विशेष्यविशेषणवाचकयोः समानलिनत्ववाधाभावश्चेति न दोष इति बोध्यम् । अत्र पूर्वेभ्यः कदिभ्यो नमोवाकमिदं प्रशास्महे इति योजयित्वा पूर्वकविविषचकनमोवाकरूपमेतन्मालमिच्छाम इत्युद्देश्यभावविरहेण पक्षान्तरगपि । अत्रापि इदमिति सामान्ये क्लीबम् । नमोवाकमिति च पुलिङ्गमेव । 'राज्यश्रीप्रथमावतारपदवीमारुय सिहासनम्' इलादाविव विशेष्यनिम्नत्वाभावेन समागलिङ्गक्रत्वप्रसक्तः । अमालानुवर्तनपुरःसरराजदर्शनन्यायेन गुणकृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति । तत्र गुणोऽपि संस्कारमनुभवतीति न्यायेन, कविनमस्कारानन्तरं बाणी नमस्करोति-वन्देमहीति । एतेन अनुप्राहकवाणीनमस्कारात्पूर्वमनुप्राह्यमाचेतसादिनमस्कारायोगः इत्यपास्तम् । 'भगवद्वन्दनं त्वाद्यं गुरुवन्दनपूर्वकम्' इति विवेच । 'मधुमयफणितीनां मार्गदशी महर्षि.', 'काव्यज्ञशिक्षयाभ्यासः' इति च प्राचेतसादीनां गुरुत्वानपायाध । तां प्रसिद्धा पूर्वोजनमस्कारार्हत्वेन बुद्धिस्थामिति वा । अमृतां शाश्वतीम् । 'यज्ञशेषसुधामोक्षेध्वमृतं शाश्वते त्रिषु' इत्यभिधानात् । अत्र यज्ञशेषसुधामोक्षस्वरूपति कश्चित् । तन । अन्तामिति नीत्वालाभात् । तल्भेऽपि वरूपामित्यर्थालाभात् । आत्मनः परमात्मनः श्रियः पत्युः कलामंशभूताम् । विग्रहाध्याये तथा प्रतिपादनात् हयग्रीवांशत्वाच्च । तदुक्तमाचार्य:--'दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तब शक्तिलेशैः ॥ इति। वाणीं वन्देमहि च प्रणमाम च । वन्दतेर्लिंडयुत्तमपुरुषबहुवचनम् । पूर्वोक्तप्रशासनसमुचायकश्चकारः । अत्र पूर्वार्ध सर्वलोकनमस्कार्याः पूर्वकालासिद्धाः प्राज्ञाः केन्विा इति सूच्यते । लोकनमस्कार्या इत्यनेन धूर्तवण्यकमाणादिव्यावृत्तिः । पूर्वेत्यनेन कल्पितषर्यकप्रकरणादिव्यावृत्तिः । भरतस्य च न्काप्यव-