पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
उत्तररामचरिते

राममयजीविते, हा महारण्यवासप्रियसखि, हा तातप्रिये, हा स्तोकबादिनि, कथमेवंविधायास्तवायमीदृशः परिणामः ।

  त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः ।
  नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥

(दुर्मुख प्रति ।) दुर्मुख, ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समाज्ञापयति । (कणे ।) एवमेक्म् । इति ।


अनेन रावणस्मरणमपि दूरोत्सारितमिति व्यज्यते । रामस्य रावणसारणगन्धासहत्वान्न विदमनुमेयम् । किं त्वनुष्ठानेन प्रकटितमित्याहमहारण्येति । प्रियत्वविशेषणम् । निर्बन्धलोकवादादिव्यावृत्तिः । सखीत्यनेन दण्डकारण्यगमने पत्नीत्वप्रयुक्तप्राधान्यं नाङ्गीकृतम् । किंतु पुरुषसिंहरामसमप्रधानत्वमेवेति । 'समान ख्यायते इति सखा' इति व्युत्पत्तेरुपलक्षणमिदम् । रामापेक्षया प्राधान्यस्यापि । 'अप्रतस्ते गमिष्यामि मृगन्ती कुशकण्टकात्' इत्युक्तत्वात् । तातस्य प्रिये अभिमते 'वधूचतुष्केऽपि' इत्यादिवश्वमाणरीत्येति भावः । स्तोकं मित्तं वदन्तीत्यर्थः । 'सखाय मितभाषिणाम्' इत्युक्तरीत्या । निमित्तलेशाभावेऽपि कथमयं परिणाम इति भावः । त्वयेति । त्वया जगन्ति पुण्यानि पुण्यवन्ति । मत्वायाच्प्रत्ययः 'पापानां बा शुभानां वा वधार्हाणां लवजम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥ इति स्व. न्मतानुसारेण पापपुण्ययोरनुग्रहृतौल्यादिति भावः । जनानामुपजीव्यविरोध इत्याहत्वय्यपुण्या जनोक्तयः । अन्न त्वया जगन्ति पुण्यानीति भुवनानो पुण्यत्वमुक्त्वा जनोकय इति जनशब्दोपादानानैव लोकान्तरस्थानामुपजीव्यविरोध इति व्यज्यते । उक्तिपदेन वस्तुस्थित्वभावाद्विषयप्रभावाच्च । इत्थं मनसा संभावनमपि भोचितम् । सुतरा बहिस्तदुत्तिः सापि जातेति व्यज्यते । जनानामुक्तय इति विग्रहायः कश्चिदित्थं प्रलपतीत्यपि न कितु बहुजना एवं वदन्तीति व्यज्यते । षष्ठीबहुव बनेन विग्रहे प्रमाण तु-रेरे पौरजानपदाः, न खलु भवतां देव्याः स्थान गृहेऽभिमत ततः' इत्यादिवक्ष्यमाणरामवचनम् । तेऽपि कदाचिदित्युक्त्या विरमन्तीत्यपि न बहुकृत्वो वदन्तीति बहुवचनार्थः । अपुण्या इति व्यतिरेकोक्ला कश्चिदपि कदाचिदपि न यथार्थ प्रत्येति नापि वक्तीति व्यज्यते । नाथवन्त इति । अहं लोकानामधीशः, मम त्वं नाथा । तथा च–'यस्यैते तस्य तद्धनम्' इति न्यायेन लोकानामपि त्वमेव नायिकेलाशयः । यद्वा व मग्याल्मतचावस्थिता, अहं च त्वयि तथावस्थितः । आह च हनुमान'अस्या देव्या मनस्तमिस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥' इति । तथा च लौकिकैमाथि प्रतिपद्यमान लोकनाथत्वं त्वदीयमित्यर्थः । इत्याहनीयम् । त्वमनाथेति । वत्सत्तामात्र मम लोकनाथत्वे प्रयोजनम् । अहं तु स्वत्कृते व्यर्थ इति भावः । विपत्स्यसे विपना भविष्यति । पूर्ववियोगोऽपि रावणवधेप्सितत्वादसत्कल्प इति न तस्सिस्त्वं विपन्ना, अस्य तु वियोगस्य सौमित्रेरपि पनिणामविषये तत्र प्रिये क्वासि मे इति वक्ष्यमाणरीत्या पूर्वोपायाविषयत्वात् इतः परमेव