पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः।

  एतत्तत्पुनरपि दैवदुर्विपाका-
   दाल विषमिव सर्वतः प्रसक्तम् ॥ ४० ॥

तत्किमद्य मन्दभाग्यः करोमि । (विमृदय सकरुणम् ) अथवा किमेतत ।

  सतां केनापि कार्येण लोकस्साराधनं परम् ।
  तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥४१॥

संप्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च ।

  यत्सावित्रैर्दीपितं भूमिपालै-
   लोकश्रेष्ठैः साधुचित्रं चरित्रस् ।
  मत्संवन्धात्कश्मला किंवदन्ती
   स्याच्चेदस्मिन्हन्त घिमामधन्यम् ॥ ४२ ॥

हा देबि देवयजनसंभचे, हा स्वजन्मानुग्रहपवित्रितवसुंधरे, हा मुनिजनकनन्दिनि, हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि, हा


एव दूषणम् । नान्यदिति भावः । आलक श्वसंबन्धि प्रसक्तम् । पाठान्तरे 'प्रसप्तम्' इति वा । एकत्र स्पर्शः कालान्तरेण सर्दतः प्रसरणमिति भाव ॥ ४० ॥ मन्दभाग्योऽल्पभाग्यः । सतामिति । केनापि कार्येण । 'स्नेह दयां च सौख्यं च यदि वा जानकीमपि' इत्युक्तरीत्या लोकस्याराधनं लोकल श्रीतिजनकव्यापारः । सता धर्मशास्त्रस्मृत्यादीनां परं धर्मः श्रेष्ठत्वेनाभिमतः । तथा चापस्तम्ब:-'यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः' इति । न चेदनननुष्ठानपराहतमित्याह-तत्प्रतीतमिति । 'अवश्यं पितुराचारः' इति स्फोरणार्थमिदम् । मां च मुख्यतममत्परित्यागानुषङ्गिकः तातस्य स्वप्राणत्याग इत्याह-प्राणश्चेिति । मुञ्चति हेतौ शत् । प्राणसागहेतुर्फ पूरणमित्यर्थः ॥ ४९॥संप्रत्येव संदिष्वमिति । 'युक्तः प्रजानामनुरकानेऽस्याः' इति संदिष्टमिति भावः । यदिति । सावित्रैः सवितुः पुत्रैः । 'तस्थापल्लम्' इत्यप्रत्ययः । अनेनाभिजन उक्तः । भूमिपालैरित्यनेन क्षत्रधर्मभूतभूमिपालनात्मकवृत्तमुकम् । परिशेषाशोकश्रेष्ठेरिलदेन विद्योता। एवमभिजनविद्यावृत्तैः सीभ्यईमनुप्रयतिराजभिदीपितं प्रकाशितं स्वयमनुष्ठितमनुष्ठापितं च चित्रमाश्चर्यभूतम् । कदमला हेचा । किवदन्ती लोकवादः ॥ ४२ ॥ खतो निर्देषित्याह-हा देवि । उत्पातिवंशदोषोऽपि नास्तीत्साह---देवयजनसंभवे । स्त्रोत्पत्तिभूमेरपि शुद्धिजननीलाहखजन्मोति । संपर्कवशदोषोऽपि नातील्लाह-मुनिजनकेति । नन्दिनीयनेन औरसकन्यापेक्षयाभिमतेति व्यज्यते । गुरुदेवताभिमतेल्याह-पावकवसिष्ठति । शीलेन वृत्तेन शाध्यते श्लाध्यत इति शीलशालिनि । 'शाड कापायाम इत्यस्माद्वाहुलकारकर्मणि णिनिः । डलयोरेकत्वम् । तद्विवृणोति--राममयेति ।