पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
प्रथमोऽङ्कः।

 तुरगविचयव्यग्रानुवाभिदः सुगराध्वरे
  कपिलमहसा रोषालुष्टान्पितुश्च पितामहान् ।
 अगणिततनूतापस्तत्वा तपांसि भगीरथो
  भगवति तब स्पृष्टानद्भिश्विरादुदतीतरत् ॥ २३ ॥

सा त्वमम्ब, स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव ।

 लक्ष्मण:-एष भरद्वाजाचेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे बटः श्यामो नाम ।

(रामः सस्पृहमवलोकयति ।)

 सीता-सुमरेदि वा तं पदेसं अज्जउत्तो ।

 रामः--अयि, कथं विस्मयते ।

  अलसललितमुग्धान्यध्वसंपातखेदा-
   दशिथिलपरिरम्भैदत्तसंवाहनानि ।
  परिमृदितमृणालीदुर्बलान्यङ्गकानि
   स्वमुरसि मम् कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥


१. सरति वा ते प्रदेशमार्यपुत्रः ।


वैदिकश्रद्धामूलमित्यवगम्यते ॥२२॥ प्रसन्नपुण्यसलिला स्वच्छपरिशुद्धजला ॥ तुरगेति। सगराध्वरे तुरगस्येन्द्रापहृताश्वस्य विचयेऽन्वेषणे व्यग्रान्ससंभ्रमान् । अत एवोवीभिदो भूमिखानिनः । भिदेः विप् । कपिलमहसा तन्नामक नितेजता रोषाद्धेतोः प्लुष्टान्दग्धान् । 'शुष दाहे । कर्मणि क्तः। तवाद्भिः स्पृष्टानुदतीतरदुत्तारयति स्म।तरतेणिचि लुड् ॥ २३ ॥ शिवे मङ्गलेऽनुभ्यानं वस्या इति विग्रहः । एतेन बीजानुगुणप्रोत्साह- नरूपं भेदो नाम संध्यामुक्तम् । तदुक्तम्--बीजानुगुणप्रोत्साहन भेदः' इति ॥ वनस्पतिरपुष्पत्वे सति फलवान् । बटः श्यामो नाम तथा प्रतिद्धिमान् ॥ अलसेत्यादि । अध्वनि मार्गे संपातः सम्बगमनम्।रामलक्ष्मणापेक्षया चरितगमनमिति भाव.। अप्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकानू' इत्युक्तत्वात् । तेन यः खेद यासस्तस्माद्धेतोरलसललितमुग्धान्यलसानि प्रसरणाकुश्चनासमर्थानि ललितानि मृदूनि मुग्धानि सुन्दराणि । खभावतः सौन्दर्यसौकुमार्ययोः सत्वेऽभ्यध्वसंपातखेदादलसललितमुग्धानीखुक्त्या मार्गगमनायासेन तयोचिगुणीभाव इति भावः । तथापि दृशोः प्रिया' इत्युक्तेः । अशिथिलपरिरम्भैईटतरालिङ्गनैः । बहुवचनमालिशनावृत्त्यभिप्रायकम् , कामतअप्रसिद्धालिगनभेदबाहुल्याभिप्रायक वा । दत्तानि संवाहनानि येभ्व इति चतुर्थीबहुव्रीहिः । संवाहनं नामानानां गमनादिजनितायासशमनौपयिकदृढतमस्पर्शविशेषः । परितः साकल्येन मृदिता निष्पीडिता या मृणाली तद्वदुर्बलानि स्वखधारणसामर्थ्यरहिता-