पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
उत्तररामचरिते

 लक्ष्मण:-एष मन्थरावृत्तान्तः ।

 राम:- (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि,

   इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा ।
   निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥२१॥

 लक्ष्मण:-(विहस्य । खगतम् ।) अये, मध्यमाम्बावृत्तान्तमन्तरित. मायेण । सीता-अह्मो, एसो जडासंजमणवुत्तन्तो ।

 लक्ष्मण:---

   पुत्रसंक्रान्तलक्ष्मीकैयदृद्धक्ष्वाकुभिधृतम् ।
   धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ।। २२ ॥

 सीता—ऐसा पसण्णपुण्णसलिला भअवदी भाईरही।

 रामः-रघुकुलदेवते, नमस्ते ।


 १. अहो, एष जयासंयमनवृत्तान्तः!

 २. एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।


भिप्राय आत्मनेपदेन रामाजकुतूहलकरणफलं सौताया इत्यवगम्यते । 'अद्वैतं सुखदुः- खयोः' इति वक्ष्यमाणत्वात् । केचित्तु 'अम्बानाम्' इति पाठ इत्याहुः ॥२०॥ मन्थरावृत्तान्तस्तत्वयलफलपट्टाभिषेकान्तरावरूपः ॥ इङ्गुदीति । लिग्थेन नेहवता निषादपतिना गुहेन समागमः संवन्धः ॥ २१॥ मध्यमाम्यावृत्तान्तमिति कीवत्वं प्रामादिकम् ।अन्तशब्दं त्यक्त्वा मध्यमाम्बावृत्तमन्तस्तिमिति पठनीयमिलाहुः ॥ जटासअमनं जटावन्धनम् ॥ पुत्रेति । पुत्रेषु संक्रान्ता खयमेवाश्रयशैथिल्यादागता । स्वत: संकान्वेलर्थः । गत्यर्थादिसूण कर्तरि तः । तथाविधा लक्ष्मीर्येषां ते तथो कास्तैः । उरःप्रभृतित्वात्कए । वृद्धाश्च ते इक्ष्वाकवश्चेति विग्रहः । इक्ष्वाकुर्वश्या इत्यर्थः । तैयद्गतं धृतं तत्पुण्यं व्रतमार्बेण बाल्ये 'वृतमिति योजना । आरण्यकानां व्रतम् । अरण्यचरमनुष्यसंबन्धि व्रतमित्यर्थः । अन्न पुत्रसंक्रान्तलक्ष्मीकरित्यनन पुनवत्वमु. पभुक्कराज्यत्यम् , संक्रान्वेति तप्रत्ययेन चाबच्छरीरदौथित्यमुपभुक्तराज्यवत्वम्, वृद्धत्यनेन वाधक चावगम्यते । एव चैतेषां समुदितानां सल एव पूर्वेषामारण्यकव्रतधारणं न तु यत्किचित्सत्वे । रामस्य तु एतेषां सर्वेषामभावेऽप्यारण्यक नराधारणम् । बाल्ये इलनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्थकाभावाना लाभात् । व्रतमित्यनेन असमज्जादिव्यावृत्तिः । व्रतस्य पुण्यत्याव्यभिचारात् पुण्यमिति विशेषणं प्रसिद्धव्यावृत्त्यर्थम् । तद्धि अनुष्ठातुरेव पुण्यफलसाधनम् । इद तु सकलभुवनाभीसाधनामिति । आयेणेत्यनेनासामध्यनियन्धनलोकवादभीत्यादिना म कृतम् । किंतु