पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
सप्तमोऽङ्कः।

  पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सयं कथा
   माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
  तामनां परिभावयन्त्वभिनयविन्यस्तरूपां बुधाः
   शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य बाणीमिमाम् ॥ २१ ॥

(निष्कान्ताः सवें।)

इति सममोऽङ्कः


विधास्यन्तीति प्रथमाके सूचितः ॥ अतः परमपि उक्तादन्यदपि । कि विदं भरतवाक्यमलु । एव सत्यपि वक्ष्यमाणं भरतवचनमस्तु भवनाहम् । अहे लोट् । पाप्मभ्य इति । इयं च प्रशस्तिः । सा प्रसिदा इयं बुद्धिस्था कथा रामायणात्मकवाक्यप्रबन्धरूपा कथा । 'कथ वाक्यप्रबन्धे' इति धातुः । सा च वाल्मीकीयचतुर्वशतिसहस्त्रिका । पाप्मन्यः दुरितेभ्यः जगत्पुनाति विभाजयति । जगत इति षष्ठ्यन्त विपरिणम्य योजनीयम् । पूद धातुः यद्यपि दुरितविभजनात्मकदोषनिहरणवाची तथापि पाप्मभ्यः पुनातीति 'सकीचकारुतपूर्णरन्त्रैः' इतिवधाख्येयम् । जगतः श्रेयांसि पुत्रमित्रादीनि वर्धयति मोक्षपर्यन्तानि उत्तरोत्तरमधिकानि करोति । अन्न कुटुम्बवृद्धि धनथान्यवृद्धि इत्यादिश्लोकद्वयमनुसंधेयम् । मातेर गझेव मानल्या मनोहरा च ।माता हि दुःखविस्मारिणी सुखदा च भवति । गङ्गा च पापनाशनी मोक्षदा च भवति । तदामायणमरीति भावः । शब्दब्रह्मविदः शब्द एव ब्रह्म परिच्छिन्नत्वापरिच्छिन्नत्वाभ्यां परब्रह्मसाम्याद्रूपणम् । तद्विदन्तीति शन्दब्रह्मविदः । बुधाः सहृदयाः । अभिनया: सात्विकालिकाहार्यवाचिकभेदेन चतुर्विधाः । अभिनयैरिवीत्थभूतलक्षणे तृतीया । अभिनयविशिष्टो यो विन्यासः रचनावैशिष्ट्य च प्रतिपादकत्वरूप विन्यस्तं विन्यासेन निष्पनं यस्यास्तथोचाम् । शरीरं त्रेहानुपूर्वी । प्राज्ञस्य सर्वज्ञशिरोमणे: कवेः भवभूतिकवेः इमां वाणी परिणतामेनामुत्तररामचरितनाटकरूपभवभूतिवागात्मना यः परिग्रामः तद्वतीमेगां श्रीरामायणात्मककथां परिभावयन्तु परितश्चिन्तयन्तु । 'भू अबक- कने । अवकल्कनं चिन्तनमित्युतम् । इय कथा श्रेयांसि वर्धयति एनां परिभावथन्वित्यन्वादेशादेनादेशः । वाल्मीकिवागेव भवभूतित्रागात्मना परिणतेत्युक्तिः । उत्तररामचरितस्य गाम्भीर्यगाधुर्यं लभ्यते । परिभावयन्त्वित्यनेन बद्धायदर्पगरसेन बिमपूर्वम्' इति श्लोकार्थों ध्वनितः। परिपूर्वकस्य 'भू सत्तायाम्' इति पठितस्यैवावज्ञानार्थकत्वमिति नास्य तत्प्रसक्तिः । शब्दब्रह्मविदो बुधाः अभिनयैः सह विन्यस्तरूपां प्राज्ञस्य कवेरिमा वाणी परिणतामेनां परिभावयन्त्विति चोजना । एवेन 'एनाम्' 'इमाम् इत्यनयोन पौनरुपयम् । अभेदलंबन्धेमान्वयवाचक्योरिव प्रकृतिविकृतिवाचकयोरपि समानविभक्तिकत्वनियमाडुभयोर्द्वितीयान्तत्वम् । एवं साह नाटक वृत्तम् ॥ २१ ॥