पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
सप्तमोऽङ्कः।

यदा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः । सखि भूतधात्रि वत्से वैदेहि, समाश्वसिहि ।

 प्रथिवी-(आश्वस्य देवि, सीतां प्रसूय कथमाश्वसिमि ।

  सोढश्चिरं राक्षसमध्यवास-
   त्यागो द्वितीयस्तु सुदुःसहोऽस्याः।

 गङ्गा -

  को नाम पाकाभिमुखस्य जन्तु-
  द्वाराणि देवस्य पिधातुमीष्टे -॥ ४ ॥

 प्रथिवी-भगवति भागीरथि, युक्तमेतत्सर्व बो रामभद्रस्य ।

  न प्रमाणीकृतः पाणिल्ये बालेन पीडितः ।
  नाहं न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥

 सीता-हा अजउत्त, सुमरेसि ।

 पृथिवी-आ:, कस्तवार्यपुत्रः।


 १. हा आर्यपुत्र, सरसि ।


भवती पूज्या विश्वभरा क्षमाप्रधाना भूमिः व्यथत इति दुःन्यत इति हेतोरपत्यम्नेहेन जितमभिभवः कृतः । अपत्यस्नेहो बलवान्धीरानप्यभिभवतीत्यर्थः । अद्वेति पूर्यकरुपातिरिक्तकल्पद्योतकम् । मनसः हृदयस्य मूहअन्थिः मोहात्यको विभागाभावप्रयोजकसंपर्कजनकः । चेतनावतां प्रेक्षायतामान्तरः उपलवः अभ्यन्तर उपद्रवः संसारतन्तु: संसारलंधायकः एषः अपत्यस्नेहः सर्वसाधारणः । न केवल विश्वभरायाः किं तु सर्वेषां समानः । दधातीति धात्री पोषयित्री । यद्वा दधत्येतामिति धात्री । प्राणिनां वर्षभित्रीत्यर्थः । इद च संबोधनं पृथ्वी प्रति अभिप्रायगर्भम् ॥ सीता प्रसूय कथमाश्वसिमि कथ केन प्रकारेणाश्वसिमि क्षीणदुःखा भवामि । मत्सुता संपन्नप्रजेतिया स्वाधीनपति केति वा केन हेतुना क्षीणदुःखा भवामीत्यर्थः । सोढ इति । राक्षसमध्यवासः चिरं सोढः । भूयांसं कालमनुभूत इत्यर्थः । सुदुःसह इति । अस्याः द्वितीयस्त्यागस्तु अलीकजनवादप्रयुक्तत्लागस्तु सुदुःसहः पूर्ववत्सहनानह इत्यर्थः । इदमन्त पृथ्वीबाक्थमनन्तरं गावाक्यम् ॥ गङ्केति । आहेति शेषः । को नाम जन्तुः प्राणी पाकाभिमुखस्य फलोपधानप्रवृत्तस्य देवस्य सुकृतदुष्कृतात्मकभाग्यस्य द्वाराणि अनुभबमार्गान, पिथातुं रोद्भुमीष्टे समर्थों भवति ॥ ४ ॥ वः रामभद्रस्य युधमईश्वस्य रामभद्रस्य । अनेन स्वसंबन्धः परिहृत इति ध्वनितम् । एतद्रक्ष्यमाणम् । युक्त संगतम् । न प्रमाणीकृत इति । वाल्ये बालभावे । पालेन स्वेनेति शेषः । पीडितः उदाहकर्मणि गृहीतः पाणि: न प्रमाणीकृतः युक्तायुक्तविचारे निर्णयहेतुर्न कुतः । गृहीत इत्यनुक्या पीडित इत्युक्तेरयं भावः । सामुदिकतन्त्रवेत्ता स्वयं रामो मत्सुतापरणिस्थसाध्वीत्वनिश्वायकं रेखाविशेष वा निदोषेचं चिरानुभवाति सूचनाय दृढ पाणिं गृह्णनय तद्विसस्मारेति । अन्यथा पाणिग्रहणस्य दोषवत्यास्त्यागाप्रतिबन्धक्रत्या-