पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
उत्तररामचरिते

(नेपथ्ये ।)

  बसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
   सहैवारुन्धत्या शिशुकलहमाकये सभयाः ।
  जरामस्तैर्गात्रैरथ खलु सुदूराश्रमतया
   चिरेणागच्छन्ति त्वरितमनसो विक्षथजटाः ॥ ३९॥

 राम:-कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चान्नैव । कथं खलु ते द्रष्टव्याः । (सकरुण विलोक्य ।) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽसि मन्दभाग्यः ।

  संबन्धस्पृहणीयताप्रमुदितैज्येष्ठैर्वसिष्ठादिभि-
   दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तालयोः संगमम् ।
  पश्यन्नीदृशमीदृशः पितृसखं वृत्ते सहावैशसे
   दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥ ४० ॥

(नेपथ्ये ।)

भो भोः, कष्टम् ।

  अनुभाबमात्रसमवस्थितश्रियं
   सहसैव वीक्ष्य रधुनाथमीदृशम् ।


जगत्कर्तृ जीारण्यं शून्यकल्पं भवति । प्रवासव पुनरागमनकलङ्काभावेन भावनाप्रकर्षस्पालीकलानाश्वासहेतुरिति भावः । तदनु जगचीारण्यकानन्तरं हृदयं कर्तृ कुकूलानां राशौ तुषानीनां समुदाय पच्यत इव पक्कं भवति । कर्मकर्तृलकारोऽयम् । आतिदेशिकयगादयः ॥ ३८ ॥ दशरथमहिध्यः कौशल्यादयः शिश्वोर्लवचन्द्रकेत्रोः कलहं युद्धमाकर्ण्य जरया वार्धकप्रयुक्तशैथिल्येन अस्वैयाप्तैर्गात्रैरुपलक्षिताः । सुदूर आश्रमो यस्माद्रणरङ्गात्तथोकम् । तस्य भावः सुदूराश्रमता । तया चिरेण बहुकालेन ॥ ३९॥ कथं दृष्टल्याः केन प्रकारेण द्रष्टव्याः । तातजनकोऽपि भार्यापितृवात्खपितृलोपन्चारः । वजे णेव अशनिघातेनेच ताडितोऽस्मि व्यथितोऽस्मि ।संबन्धेति । संबन्धस्यापत्यसंवन्यस्य स्पृहणीयतया श्लाप्यतया प्रमुदितैः प्रकृष्टमोदयुक्तैः वसिष्ठादिभिः । आदिशब्देन गौतमकौशिकादिपरिग्रहः । अपत्यविवाहमालविधौ मम तस्याश्च पाणिग्रहणकमणि । तसातयोस्वथाविधजनकदशरथयोः संगम संगेलन दृष्ट्या महावैशसे वृत्ते सीतात्यागरूपमहाहिंसायां पितृसखं जनकमीदृशमत्यन्तदुःखितमीदृशः पश्यन् वैशसनिमित्तभूतः पश्वनहं किं कुतः सहस्रधा अनन्तभागतया न दीय विदारितो न भवामि । अथवा विदारणाभावे रामेण दुष्करे किं न किमपि । रामेण दुष्करं दारणाभावी वा इतोऽग्यन्यद्वा सवै सुकरमिति भावः॥४०॥ अनुभावमात्रेति । अनुभावमात्रेण अनितरसाधारणमहापुरुषत्वेन समबस्थिता समवस्थाहा निश्चयाही श्रीरैश्वयं यस्य तथो-