पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
उत्तररामचरिते

 लक:-तात, किमेतत् ।

  बाप्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
  अवश्थायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥

 कुश:-अयि वत्स,

  विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
   पियानाशे कृत्सं किल जगदरण्यं हि भवति ।
  स च स्नेहस्ताबानयमपि वियोगो निरवधिः
   किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥

 रामः---(खगतम् ।) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धहृदय, कोऽयमाकस्मिकस्ते संप्लवाधिकारः । एवं निर्मिन्त्रहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु ताबदतरयामि । (प्रकाशम् ।) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो बाल्मीके: सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य । तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि ।

 कुश:-कृत्स्न एव संदर्भोऽस्माभिरावृत्तः । स्मृतिप्रत्युपस्थितौ तावदिमौ वालचरितस्यान्ते द्वौ श्लोकौ ।

 रामः-उदीरयतं वत्सौ ।


केनचिदुपायेन अनिर्धारणीयेन व्याजेन ॥ बापवर्षेणेति । जगन्महलं जगदम्युयहेतुभूतं वः आननमवश्यायेन हिमेनावसिकस्य पुण्डरीकस्य सिलाम्भोजस्य । विरहपाण्डिन्ना पुण्डरीकलोक्तिः । चारुतां शोभा नीत प्रापितम् । निदर्शनालंकारः ॥ २९ ॥ बिनेति । सीतादेव्या विना सीतावियोगो रघुपतेः किं वा दुःख न । सर्व दुःखात्मकम् । कृत्नं जगत्प्रिचानाशे प्रियाचा अदर्शने अरण्य भवति हि । स च स्नेहः सीताविषयकः प्रणयः स तावानपरिमितः । वियोगः निरवधिरवसानशून्यः । अनधिगतरामायण इवानधीतरामायण इव पृच्छसि।। ३० । तटस्थः अस्मजिज्ञा- सितसीतापुचलास्पर्शनेन उक्तमित्यर्थः । आकस्मिकः निष्कारणिकः संहवाधिकार: लतगमनान्वयः दुर्लभविषयमनोरथायासः किमर्थ इति यावत् । अन्तरयामि छादयामि । सरस्वत्याः वाण्याः तिध्वन्दः द्रवः । आदित्यवशस्य प्रशस्तिः प्रख्यातिहेतुः । रामावण रामायणनिति श्रूयते । श्रवणबहुलाभिप्राय द्विरुक्तम् । तत्र तदेकदेशं यत्किंचिच्च्ट्रोतुं इच्छामि । कौतूहलं हर्षः ॥ कृत्व एव सकल एव संदर्भः अन्यः सावृत्तः उपाध्चाचासहकारेण खमाणोच्चारणानुकूलावृत्तिविशेषः कृतः । स्मृति प्रत्युपस्थितौ अव स्मृतिविषयभूतौ । बालचरितस्य बालकाण्डस्यान्ते सर्गान्ते द्वौ श्लोको द्वे पद्ये ॥ वत्सौ संबोधन द्विवचनम् । उदीरवतं बदतम् । विधौ लोमध्यमद्विवचनम् ॥