पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
षष्ठोऽङ्कः ।

(विचिन्त्य ।) तदेतत्याचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता । इयं चानयोराकृतियोऽनुभावश्च । यत्स्वतःप्रकाशान्यस्त्राणीति च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासनिकं शन्त्राभ्यनुज्ञानं प्रबुद्ध स्यात् । न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः । अयं विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति च भूयिष्ठमात्मसंवादः । जीवद्वयापत्यचिह्नो हि देव्या गर्भिणीभाव आसीत् । (सास्त्रम् ।)

  परां कोटिं स्नेहे परिचयविकासादधिगते
   रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
  मयैवादी ज्ञातः करतलपरामर्शकलया
   द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥

(रुदिखा।) तत्किमेतौ पृच्छामि केनचिदुपायेन ।


पुनः अनयोः सीतायाश्च दृशौ तु रक्तनीले यद्यपि अनयोः रके सीताया नीले एव । तथापि सौभाग्यगुणः सौन्दर्यगुगः स एष एकरूप एवं ॥ २७ ॥ प्राचेतसाध्युषित बाल्मीकिकर्तृकवासाधिकरणम् । चत्रारण्ये । आकृतिरवयवसंस्थानविशेषः । इयमीहशम् । बयः द्वादशवत्सरपरिमितमित्यर्थः । अनुभावश्च प्रभावश्च । ईदृश इति शेषः । अनाणि जृम्भकाणि स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञातानीति यत् । तत्रापि चित्रदर्शने प्रा- सनिक प्रसमानुप्रसक्तं शस्त्राभ्यनुज्ञान सर्वथा त्वत्प्रसवमुपस्थास्यन्तीखत्र कृतं प्रबुद्ध स्यात्तथा संपादनेन प्रकटं भवेदिति स्तरामील्यन्वयः । हि यस्मादसंप्रदायकानि गुरूपदेशक्रमरहितानि अस्वाणि पूर्वेषामपि मनुप्रभृतीनामपि नेति शुश्रुमस्तस्यात्मबुद्ध स्यादिति तत्रापि सरामीति पूर्वेण संबन्धः । विस्मये संपवमानः अमज्जन् सुखदुः- खातिशयः हृदयस्य विप्रलम्भः विप्रयोगशहारः । प्रायेण हि खरूपसंतापेन प्रियजनसंयोगविप्रयोगौ मुखदुःखहेतू भवतः । विस्मयसंप्लवमानेलनेन विस्मयस्य प्रवाहात्मकल चन्यते । अजले प्लवनासंभवात् । यमाविति द्वाविति । आत्मसंवादः प्रकृतानुभूयमानयमत्वानुरूपस्लपूर्वानुभवः । भूशिष्ठम् । बहुतम इत्यर्थः । सामान्ये क्लीबलम् । जीवद्धय यदपत्यं तस्य चिदं सूचितं यस्मिस्तथोक्तः । परामिति । हे परिचयस्य सततसाक्षात्कारस्य विकासादतिशयात्परां कोटिमपकर्षांसमानाधिकरणोत्कर्षमविगते प्राप्ते सति । रहो बिनब्धाया अपि लक्षाविरोधिखैरस्थिलापादकदशाविशेषाहींग अपि । अहे तः । सइजलजाजडदृशः अपरिहरणीयलज्जागुणेनाधीरलोचनायां आदी प्रथमं करतलपरामर्शकलया पाण्युदरपरिमार्जनविद्यया । कलाशब्देन सूक्ष्मदर्शनं ध्वन्यते । अन्थिः भस्त्रिका द्विधा अपत्यद्वयरूपप्रकारचयुक्तः शातः निश्चितः । तन्तु मनानानन्तक कैर्दिवसः कतिपचदिवसैस्तथापि ज्ञातः सीतया यवगतः ॥ २८ ॥