पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
उत्तररामचरिते

  अमलिनमिव चन्द्रं रश्मयः खे यथा वा
   विकसितमरविन्दं बिन्दवो माकरन्दाः ॥२४॥

भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।

  कठोरपारावतकण्ठमे चर्क
   वपुषस्कन्धसुबन्धुराँसयोः ।
  प्रसन्नसिंहस्तिमितं च वीक्षित
   ध्वनिश्च माजल्यमृदङ्गमांसलः ॥ २५ ॥

(निपुण निरूपयन् । अये, न केवलमस्मद्धशसंवादिन्याकृतिः ।

  अपि जनकसुताबास्तच तच्चानुरूपं
   स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
  ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
   रभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥२६॥

  शुक्लाच्छदन्तच्छविसुन्दरेयं
   सैबोष्ठमुद्रा स च कर्णपाशः ।
  नेत्रे पुनर्यद्यपि रक्तनीले
   तथापि सौभाग्यगुणः स एव ॥ २७ ॥


मयूखाः अमलिन निष्कलङ्कं चन्द्रमित्र । नाकरन्दाः मकरन्दसंवन्धिनः बिन्दवः कणाः विकसितं त्यक्तमुकुलीभावमरविन्दसिव च वपुःकान्तिमुद्भेदरन्ति ॥ २४ ॥ अनयोः कुशलव्योः भूमिष्टं अतिसयेन बहु रघुकुलकौमार रधुवशसंबन्धिबालखम् । कठोरेति । कठोरपारावतकात् प्राप्त यौवनक्रमोनकण्ठवन्येबक नीलम् । वृषस्कन्धवढ्षभककुदिव सुबन्धुरं सुन्दरमन्तं भुजशिखरं ययोस्तथोक्तयोः । प्रसन्नसिहवत्याकश्यरहितसिहदीक्षितवत् स्तिमितमतरलम् । माअल्यमृदावन्मङ्गलार्थमृदहध्वनियमांसलः स्फीतः । हितादिलाबप्रत्यये सति प्रज्ञाद्याणि च आदिवृद्धौ माजल्यशब्दसिद्धिः ॥२५॥ निपुणं निरूपयन् सम्बपिबद्धारयन् । आकृतिरस्मद्वंशसंवादिनी केबल न भवति समदंशसंवादः असमत्कुलसादृश्यं सोऽस्सास्तीति विग्रहः । अपीति । तच्च तचाववादिक गुणजातमेवं च जनकसुनायाः सीताचा: अनुरूपं सदृशं तचावयवादिकमिह शिशुयुग्मे कुशलवचोः स्कुटं व्यक्तम् । तच गुण जातं च नैपुणेनावहिततया उनेय निश्चयाईनस्ति विद्यते । क्रियाद्वयाग्नैकशेषः । अभिनवशतपत्रस्य नूतनकमलस भीरिव श्रीर्थरस तथोक्तमास्यं पुनरक्ष्योर्गोचरीभूतमिच ननु भूयोऽपि त्राविषयीभूतमिव ननु संभाव्यते । द्वादशसु संवत्सरेषु चक्षुर गोचरमय गोचरतां गतमिति विप्रत्ययेन लभ्यते ॥ २६ ॥ शुक्राच्छदन्तच्छविसुन्दरेयं ओष्टमुद्रा अधरोत्तरोष्टसंनिवेशः सैर सीताचा एव । कर्णाशः स एव सीतासंबन्धेव । नेत्रे