लवः--यथैव गुरुस्तथोपसदनेन ।
कुशः-कथं हि नामैतत् ।
लव:---अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।
कुश:---संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः।
(उभौ परिकामतः ।)
लवः पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंमाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।
कुश:-(निर्वर्ण्य ।)
अहो प्रासादिक रूपमनुभावश्च पावनः ।
स्थाने रामायणकविर्दैवीं वाचमवीवृधत् ॥ २०॥
तात, प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः-एलेह्यायुष्मन् ।
अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
परिप्वङ्काय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥
(परिष्वज्य । स्वगतम् ।) तत्किमित्ययं च दारकः ।
मीमासे ॥ यथैवेति । यथा गुरुः पिता उपसदनेन समीपानुभजनेन । प्राप्य इति पूरणीयम् । तथैव उपसदनेनानापि प्राप्य इत्यध्याहारः ॥ एतद्गुरुवदुपसदनीयत्व कथ कस्सा तोः ॥ अत्युदात्तः अत्युचस्वभावः सुजनः समीचीनजनः । सौजन्यवानिति यावत् । औमिलेय. अमिलापुत्रः। स्त्रीभ्यो डक् । सख्येन सखित्वेन मामुपतिष्टते संश्लिष्यते । 'उपादेव-' इति आत्मनेपदम् । तेन संवन्धेन चन्द्रकेत्वन्युपगतमैत्रीरूपसंबन्धन ॥ संप्रति धर्मतस्तातत्वे राजन्ये रामेऽपि प्रश्रयो विनयः अवचनीयो निर्दुष्टः॥ आकारः महापुरुषलक्षणयुक्त विग्रहसन्निवेशः, अनुभावः प्रभावः, गाम्भीर्यमक्षोभ्यत्वम्, एतैः संभाव्यमागोऽनुमीयमान, विविध: नानाप्रकारः लोकोत्तरो विश्वातिशायी सुचारताना सुकर्मणामतिशयः उत्कर्षः यस्य तथोक्तम् ॥ अहो इति । प्रसादः पारुष्यराहिलं तस्मिन् भवं प्रासादिकम् । प्रसाद्गुण एवास्य रूपस्य उपादानकारणमिति भावः । रूपं विग्रहः । पावनः वसंबन्धानामन्येषामपि शुद्धिहेतुः । अनुभावः व्यवसायविशेषश्च । अहो विस्मयनीयावित्यर्थः । रामायणकविः रामायणप्रणेता वाल्मीकिलक्षणकविः देवीं वाच वाग्देवीमवीवृधत् इति स्थाने युक्तम् । वृधधातोणिचि लुडि चडू द्वित्वम् ॥ २०॥ अमृताध्मेति । अमृतामातजीमूत इव सुधापूरितकालमेघवत् स्निग्धं संहनन गात्रं यस्य तथोक्तस्य । 'गत्रं वपुः संहननम्' इत्यमरः । ते तर परिष्वशाय आलिक्षितमुत्कण्ठते । 'सर्वेन्द्रियसुखाखादो यत्रास्तीत्यभिमन्यते । तस्त्राप्तीच्छा ससंकल्पामुत्कण्ठां कवयो विदुः ॥' इत्युक्ताभिलाषबान्भवति । अयं जन इत्युक्तेः दय-