(विकट परिकामति)
रामः कोऽप्यस्मिन्क्षन्नियपोतके पौरुषातिरेकः । तथाहि ।
दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
वीरोद्धता नमयतीव गतिधरित्रीम।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥
लव:-(उपसल ।) जयत्वार्यः ।
कुश:---नन्वायुप्मन् , किमियं वार्ता युद्धं युद्धमिति ।
लपः-यत्किंचिदेतत् । आर्यस्तु ढसं भावमुल्लूज्य विनयेन वतताम् ।
कुश:--किमर्थम् ।
लव:-यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोता।
कुशः--आशंसनीयपुण्यदर्शनः स महात्मा । किंतु स कथमम्माभिरुपगन्तव्य इति संमधारयामि ।
दीसानामबाणां रकुरन्त्यस्तरलाः रसास्तीक्ष्णाः या दीधितयस्तासां शिखया कोट्या नीराजिता आतांकृता ज्या मौवौं यस्य तथोकम् । मतद्धनुः। धन्यं प्रशस्तम् ॥१८॥ विकटं विषमं परिकामति ॥ दृष्टिरिति । तृणीकृतः अनाहतः जगत्रयसत्त्वसारः लोकत्रयबलोत्कर्षों यया सा । धीरोद्धता धीरा चासौ उद्धता चेति विग्रहः । कौमारेऽपि वास्येऽपि गिरिवत्पर्वत इव । गिरिहि उत्पत्तिप्रभूतिगुरुत्वयान् वृक्षादयस्तु नैवम् । कितु परिणामविशेषेण गुरुत्वं भजन्ति किं वीरो रस एति शत्रुकृतापराधादिना प्रज्वलनरूपकोवस्थायिकस्वसंवेद्यः प्रकाशविशेषः किमेति । रसालम्चने रसत्वारोपाद्धत्वलकारः । दर्पः बुद्धकण्डूलता ॥ १९ ॥ आयुष्मन् लबं प्रति संबोधनम् । युद्ध युद्धमिति वार्ता प्रवृत्तिः युद्धमासीदिदि जनबादः श्रूयते स कि सत्य इत्यर्थः ॥ एतयुद्धं यस्किचिदल्पकम् । न प्रश्नाहमित्यर्थः । आर्यस्तु । ज्येष्ठ प्रातृप्रयुक्तपूजाद्योतनाय आर्यशब्दप्रयोगः । दृप्तं भाव दात्मकखभावमुत्सृज्य त्यक्त्वा । दृप्तमित्यत्र भावे क्तः । विनयेन निकर्षप्रति संधानेन । उपलक्षणे तृतीया । देवः पूज्य: रघुनन्दनः रामः अत्र स्थित इति यत्तस्माद्विनयेन वर्नतामिति पूर्वेणान्वयः । ब्रह्मकोशन्य ब्रह्माण्डस्य गोप्ता रक्षकः ॥ स महात्मा अनन्यसामान्यत्रभावः रामः । आशंसनीयमभिलक्षणीय पुण्य सुकृतमूल दर्शनं साक्षात्कारः यस्य तथोक्तः । भवतीति शेषः। 'अस्तिभवन्तीपर.' इत्युक्तेः । प्राप्तस्य प्रयोजनस्य प्राप्तुमिच्छा आशंसा । कितु एव सत्यपि अस्माभिर्मया कथापगन्तव्य इति संधारयानि केन प्रकारेण उपस्थातव्यमिति