पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
उत्तररामचरिते

 कञ्चकी-देव, ऋष्यशृङ्गाश्रमादष्टावक्र: संप्राप्तः ।

 सीता-अज्ज, तदो कि विलम्बीअदि ।

 राम:-त्वरितं प्रवेशय ।

(कझुकी निष्पक्षन्तः।)

(प्रविश्य।)

 अष्टावक्र:--स्वस्ति वाम् ।

 रामः—भगवन् , अभिवादये । इत आस्यताम् ।

 सीता--भैअवं, णमो दे। अवि कुसलं सजामातुअस्स गुरुअणम्स अजाए सन्ताए ।

 रामः-निर्विघ्नः सोमपीथी भाबुको मे भगवानृप्यशृङ्गः, आर्या च शान्ता।

 सीता—अम्हे वि सुमरेदि ।

 अष्टावक्र:—(उपविश्य ।) अथ किम् । देवि, कुलगुरुभगवान्चसिष्ठस्त्वामिदभाह

  विश्वंभरा भगवती भवत्तीमसूत
   राजा प्रजापतिसमो जनकः पिता ते ।


 १. आर्य, ततः किं विलम्ब्यते ।

 २. भगवन् , नमले । अपि कुशलं सजामातृकस्स गुरुजनस्वार्यायाः शान्तायाश्च।

 ३. अस्मानपि स्मरति ।


वार्तिकादस्य चित्तविकारे वृत्तिः । काम्यन्त इति कामाः । कर्मणि घन् । गृहक्षेत्रपुत्रादयस्तानित्यर्थः ।। उपचारो ब्यवहारः । यथा यस्तनभ्यस्तमनतिक्रम्य । यथार्थत्वात्समासः । अभिधीयताम् ॥ अथावस्तदाख्यः । अटो वका णि अस्येति विग्रह योगरूढशब्दः । 'अष्टनः संज्ञायाम्' इति दीर्घः । हास्यानुप्रवेशार्थमष्टावक्रमनेश.॥ अवि कुसलं सजामातुअस्खेति । सजामातुअस्स सजामातृकस्य । 'प्रायो - गचजतदपयवाम्' इति सूत्रेण ककारलोप । तस्सिन्नवशिष्टाकारस्प्रेषस्यूटयकारश्रुतिश्च प्राकृतव्याकरणसिद्धा॥ निर्विन इति । सोमपीथी । सोमपा इत्यर्थः । भाबुकः पूज्यः । शान्तापतिलादिति भावः ॥ विश्वंभरेति । नन्दिनि गुणपूर्ण । 'टुनदि समृद्धी' इलस्यात् भावे घणि 'अत इनिठनौ' इति इनिप्रत्ययः । एकाक्षरा-