भावः । (प्रकाशम् ।) वत्स, सहियतामस्थम् । त्वमपि चन्द्रकेतो, निापारतया विलक्षणानि सान्त्वय बलानि ।
(लदः प्रणिधान नाटयति।।
चन्द्रकेतुः-यथा निर्दिष्टम् । (इति निष्क्रान्तः ।)
लव:- तात, प्रशान्तमस्त्रम् ।
रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्टया वत्सस्यापि संपद्यन्ते।
ब्रह्मादयो ब्रह्महिताय तत्त्वा
परःसहलं शरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः
स्वान्येव तेजांसि तपोमयानि ॥१५॥
अथैतामस्त्रमन्त्रोपनिपदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्लरपरिचानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान्ममिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि ।
लव:-----स्वतःप्रकाशान्यावयोरस्त्राणि ॥
राम:------(विचिन्त्य) किं न संभाव्यते । प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ।
लव-प्रातरावावां यमौ ।
राम:--स तर्हि द्वितीयः छ ।
हृयो भवति । स्तम्भितानि नियापाराणि ॥ संदियतामाकृष्यताम् । जृम्भकास्त्रप्रयुकपीडाया अननुभूतत्वात् , नियापारतया विलक्षणानि विस्मयान्वितानि । सान्त्वय मधुरोक्तिभिर्मोदय । प्रणिधान ध्यानम् ।। प्रयोग नियोजनम् , संहार आकर्षणम् । सरहस्सों अहन्यासाद्यनुष्ठानसहितौ प्रयोगसंहारौ षा तथोक्तानि । संपद्यन्ते स्थितानि भवन्ति । ब्रह्मादय इति । व्याख्यातम् ॥ १५॥ अनमश्नोपनिषद् अस्त्रमन्त्रनयीमुपनिषदम् । पर:सहस्राधिकसंवत्सरं परिचर्या निरताय कौशिकाय विश्वामिनाय । भगवान् कौशिकः । पूर्वेषां गुरूणामनुक्रमः परम्परासंप्रदायः गुरुमुखोपदेशः । कुतकस्मात् ।। स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञाताने ॥ कि न संभाव्यते । सर्व सभावितमेवेति भाषा प्रकृष्ट पुण्योशदानक. प्रभूतसुकृतादिकरणकः । द्विवचनं तु आवयो-