पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
उत्तररामचरिते

  सामर्थ्यानामिव समुदयः संचयो वा गुणाना-
   माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥

 लवः--(स्वगतम् ।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः ।

  आश्वास इव भक्तीनामेकमायतनं महत् ।
  प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥

आश्चर्यम् ।

  विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
   स्तदौद्धत्यं क्वापि जति विनयः प्रह्वयति माम् ।
  झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा
   महार्धस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥

 रामः--तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपसोहयति


स्थितः शौचंबीर्यादिरूपक्षत्रियस्वभाव इव स्थितः । सामर्थ्यानामारब्धकार्यनिर्वहणशक्तीनां समुदय इच स्थितः । गुणानां धैर्यादीनां संचयो वा समूह इव स्थितः। 'वा स्थाद्विकल्पोपमयोः' इति कोशः । जगत्पुण्यनिर्माणानां जगत्पुण्यानुष्ठानानां राशिरिव स्थितोऽयं घत्सस्य बयस्य इति पूर्वेण संबन्धः । आविर्भूय प्रलक्षीभूय स्थितः जगत्पुण्यनिर्माणराशिरिव स्थितः । अभूतोपमा ॥९॥ पुण्ये अनुभावदर्शने यस्य तथोक्तः । अनुभावः प्रभावः दर्शनं साक्षात्कारः । आश्वास इति । भक्तीना नेहपूर्वानुध्यानानामाश्वास इव स्थितः दुःखविस्मरणपूर्वकाहाद इव स्थितः। भक्तयोऽन्यत्र हि क्रियमाणा विषयदोषेण दुःस्यन्ति । तासां रामे क्रियमाणानां विषयसौष्ठवेनासादो जायते । तद्धेतौ तत्त्वारोषः। एकमद्वितीय नहद्विपुलं भक्तीनामायतनं स्थान च । 'आश्वासस्नेहभत्तीनामेकमालम्बनं महत्' इति च पाठान्तरम् । आश्वास: द्वेषाभावः । स्नेहः प्रणयः भक्तिः स एव भावनाप्रकर्षण प्रलक्षसमानाकारतामापन्न एव तासां मुख्यविषयभूत इत्यर्थः । प्रकृष्टस्थ लोकोत्तरस्य धर्मस्य सुकृतस्य मूर्तिसुन्दर: प्रसाद इव स्थितः महापुरुष इति पूर्वेणान्वयः । उक्तं च 'रामो विग्रहवान्धमः' इति । प्रसाद इह फलप्रदानोन्मुखता ॥ १० ॥ विरोध इति । विरोधः वैरम् । निधान्तः विरतः निवृतिघनः आनन्दसान्द्रः । रस्यते चर्च्यते इति रसः । अपरोक्षावभासन रूपः प्रसरति प्राप्नोति । तद्विपुलमौद्रलं दर्पहेतुकसंभावनारूपं वापि ब्रजति । विनयः महाजनसंनिधी खोत्कर्षाननुसंधानरूपः मा प्रड्डयति नमयति । अस्मिन्महापुरुषे दृष्टे सति साक्षात्कृते सति किमिति परवानसि कस्माद्धेतोः परतन्त्रोऽसि । यदि वा अथवा तीर्थानामिव गङ्गादिपावनसलिलानासिव महतां पुरुषाणां महाघः अमूल्यः । इलाध्य इति यावत् । अतिशय उत्कर्षः कोऽपि । अन्याश इत्यर्थः । इमंच श्लोकं बहवो बहु मन्यन्ते ॥ ११ ॥ एकरद एव एकक्षण एवं उखविश्राम दुःख-