पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
उत्तररामचरिते

  यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने
   यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥

 चन्द्रकेतुः-आः तातापवादिन् , भिन्नमर्याद, अति हि नाम प्रगल्भसे।

 लव:-अये, मय्येव श्रृकुटीमुखः संवृत्तः ।

 सुमन्त:--स्फुरितमनयोः क्रोधेन । तथा हि ।

  क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः
   किंचित्कोकनदच्छदस्य सदृशे नेत्रे खयं रज्यतः ।
  धत्ते कान्तिमिदं च वक्रमनयोभद्रेन भिन्न दो-
   श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्धान्तभृङ्गस्य च ॥ ३५ ॥

 लवः---कुमार, कुमार, एलेहि । विमर्दक्षमा भूमिमवतरावः ।

(इति निष्कान्ताः सर्वे )

इति पञ्चमोऽङ्कः।


गौरवहेतुरिति भावः । सुन्दनीमथने ताटकावधेऽपि अकुण्ठयशस: अप्रतिइतकीर्तयः। कुतोमुखानि पराङ्मुखानि पदानि पादन्यासपराङ्मुखानीति वाचा वामपि जुगुप्सयाकुतोमुखानीत्युक्तम् । तदिदं शौर्यातिशयकार्यम् । अत्रात्यन्तमासन्नो भूला खरः स्थितः तदा रामभद्रश्चापकर्षणार्थ पदन्नय निवृत्य तं जयानेति प्रसिद्धिः । इन्द्रसूनुनिधने वालिवधे यत्कौशल नैपुण्यमन्तर्धानपूर्वकल्वरूपं तत्राप्यभिज्ञो जनः वर्तते। हुमिति परिहासे ॥ ३४॥ तातापवादिनू रामभद्रविषयदोषवादिन् । भिन्नमर्याद अतिक्रान्तसमुदाचार ॥ भृकुटीमुखः क्रोधप्रयुक्तभनयुक्तवदनः ॥ अनयोलेवचन्द्रकेलोः । क्रोधेनेति । उद्धताः धूताश्वलन्तः कुन्तलाः केशभराः यस्मिन् स तथोक्तः । कोकनदच्छदस्य रक्तारबिन्दपत्रस्य रज्यतः रक्तीभवतः । भुवोमजेन भीमम् । थनयोरिदं वक्र च । उद्भटलाञ्छनस्य प्रकटलक्ष्मण: चन्द्रस्य उद्धान्तभृङ्गस्य कमलस्य च कान्ति धसे । वक्रमित्येकवचनोक्तिः संतानैक्यप्रयुक्तात्यन्तसारूपयद्योतनाच । निदर्शनालंकारः॥ ३५ ॥ एखागच्छ । विमर्दक्षमा युद्धयोग्या भूमिमवतरावः । इति निष्कान्ताः सर्वे ॥

  वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य ।
  उत्तररामचरित्रव्याख्यायामवासितः पञ्चमोऽङ्कः ॥

  इति श्रीचाधूलवीररावविरचितायां भवभूतिभावतल-
  स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
    पञ्चमोऽङ्कः।