पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
उत्तररामचरिते

(नेपथ्ये महान्कलकलः)

 लष:-(सावष्टम्भ परावृत्य।) कथमिदानी भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः । धिग्जाल्मान् ।

  अयं शैलाघातक्षुभितवडवाक्क्त्रहुतभु-
   क्प्रचण्डक्रोधार्चिनिचयकवलत्वं बजतु मे।
  समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः
   पयोराशेरोधः प्रलयपवनास्फालित इव ॥९॥

(सोगं पारऋामति ।)

 चन्द्रकेतुः--भो भोः कुमार,

  अत्यद्भुतादपि गुणातिशयात्रियो मे
   तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
  तत्किं निजे परिजने कदनं करोषि
   नन्वेष दर्पनिकपरतव चन्द्रकेतुः ॥१०॥

 लवः-(सहर्षसंत्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्बिकर्तनकुलकुमारस्य । तत्किमेभिरेनमेव तावत्संभा- वयामि।

(पुनर्नेपथ्ये कलकला।

 लव:.(सकोधनिर्वेदम्) आः, कदर्थीकृतोऽहमेभिर्वीरसंवादविनकारिभिः पापैः । (इति तदभिमुखं परिकामति ।)

 चन्द्रकेतुः—आर्य, दृश्यतां द्रष्टव्यमेतत् ।


पराक्रमो यस्येत्यर्थः । धीरोदात्तादयश्चत्वारो नायकाः प्रसिद्धाः, तेषु प्रायेण भटानामेव धीरोद्धतत्वमायाति ॥ सर्वे भमा अपि पराजिता अपि पर्यवष्टम्भवन्ति समीपस्थिता भवन्ति । 'अवामालम्बनाविदूर्वयोः' इति षत्वम् । अयं शैलेत्यादि । अयमोघः युधमाकं समूहः शलाघातेन मन्दरसंघटनेन क्षुभितो विपर्यस्तः यः वडवावकहुतभुरबाडवमुखाग्निस्तद्वत्प्रचण्डस्य तीक्ष्णस्य क्रोधाचिनिचयस्य कोपानिज्वालासमूहस्य कवलत्व भश्वत्वं व्रजतु । क इवेत्यत्राह-पोराशेरोषःप्रवाह इवेत्यर्थः ॥ ९॥ अत्यद्भतादिति । गमले सखा तस्मान्मदीयं यदुस्तु तत्तवैव त्वदीयमेव । तन्निजे परिजने किमर्थमेवं कदन युद्धं करोषि । तव दर्पपरीक्षास्थानमेष चन्द्र केतुरित्यर्थः ॥ १० ॥ प्रसादवती कर्कशा च कठिना च । आपाततो हृया पर्यालोचने तु कठिनेत्यर्थः । वीरवचनप्रयुक्तिः वीरवादप्रयोगः । संभाश्यामि पुरस्करोमि ॥ कदांकृतः अनुचितव्यापा-