पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
चतुर्थोऽङ्कः

 वटवः-किमुच्यते । प्राज्ञः खल कुमारः ।

 लवः-भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ।

(नेपथ्ये)

 रे रे, महाराज प्रति कुतः क्षत्रियाः ।

 लक:--धिग्जाल्मान् ।

  यदि नो सन्ति सन्त्येव केयमद्य विभीषिका ।
  किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥

हे बटवः, परिवृत्य लोष्ठेरभिघ्नन्त उपनयतैनमश्चम् । एष रोहितानां मध्येचरो भवतु ।

(प्रविश्य सक्रोधः)

 पुरुषः-धिश्चपल, विमुक्तवानसि । तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृतां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत ।

 वटवः-कुमार, कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे ।


'मन.प्रज्वलनं क्रोधः' इति युक्तम् । एवं पूर्वोक्तरीत्या उद्घोष्यत इति थावत्त ससारिकमक्षत्रिया पृथिवील्यन्वयः ।। महाराज प्रति तदौमुख्येन कुतः कल्माद्धेतोः क वा ॥ विरजालमानसमीक्ष्यकारिणः । भवद्विषयका निन्देत्यर्थः । अक्षश्रिया इखनुषज्यते । क्षत्रिया न सन्तीति भवद्भिरच्यते चदि सन्त्येवेत्यवगन्तव्यम् । अद्य क्षत्रियसत्ताविकरणे अस्मिन्दिवसे इच विभीषिका भोपादनं का । कीदृशीलयर्थः । एभिरुक्तैरधुना कि । न किमपीत्यर्थः । तां व पताका हराम्बन्यत्र प्रापयामि ॥ २८॥ अभिन्नन्तरार्जयन्तः। रोहितानां मृगविशेषाणाम् ॥ आयुधश्रेणयः शञपलवस्तीश्यातरा हि। त्वत्तोऽपि क्रूरा इत्यर्थः । दृप्ता दर्पयुत्ता वाच न सहन्ते । शिक्षणाभाववन्तो न भवन्तीत्यर्थः । सोऽपि चन्द्रकेतुरिति योजना । दुर्दान्तोऽमर्षशीलः । अपूर्वारण्यदर्शनेन अननुभूतविपिनावलोकनेनाक्षिप्तहृयो व्यासक्तमनाः । तरूणां गहनेन दुर्गमसंनिवेशेनापसर्पत पलायध्वम् ॥ कृतं कृतमश्वेनेति । अश्वेन साध्यं किमपि नास्तीत्यर्थः । गर्हायां द्विरुक्तिः । अज्ञानादेच वयमत्र प्रवृत्ता इति भावः । विस्फारितशरासनाः घोषवद्धनुषः तर्जयन्ति भवमुत्पादयन्ति । आश्रमपद चाश्रमस्थान च दूरे । विप्रकर्ष इत्यर्थः । हरिणानां यानि हतानि अभूस्पर्शगमनानि । तत्सदृशगमनैरित्यर्थः । पलायामहे परागता भवामः । 'अय गतौ तस्य परेत्युपसर्गपूर्वकत्वम् उपसर्गस्यायतौ' इति लत्वम् ॥ विस्फु-