पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
चतुर्थोऽङ्कः

 लव:-एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् ।

 जनक:-किं यमावायुप्मन्तौ ।

 लव:--अथ किम् ।

 जनक:-बत्स, कथय कथाप्रपञ्चस्य कियान्पर्यन्तः।

 लव:-अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवी देवयजनसंभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति ।

 कौसल्या-हा वच्छे मुद्धमुहि, को दाणि दे सरीरकुसुमस्स झत्ति देवदुबिलासपरिणामो एकाइणीए निवडिदो।

 जनकः---हा वत्से,

  नूनं त्वया परिमवं.च वनं च घोरं
   तां च व्यथां प्रसवकालकृतामवाप्य ।
  क्रव्याद्गणेषु परितः परिवारयत्सु
   संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥ २३ ॥

 लवः-आर्ये, कावेतौ।

 अरुन्धती--इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदकोतुक पश्यति ।)

 जनकः---अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामभद्रस्य क्षिप्रकारिता।


 १. हा वत्से मुग्धमुखि, क इदानी ते शरीरकुसुमस्स झटिति दैवटुबिलासपरिणाम एकाकिन्या निपतितः ।


प्रसवानुक्रमेणोत्पत्तिरकारेण । ज्यायान् ज्येष्ठः । चमसाधारणपूर्वजानुजत्वन्यवस्थापकजननानुपूज्यण ज्येष्ठ इति भावः॥अत एव पृच्छति-कि यमाविति ॥ कथाप्रपञ्बस्य कथाविस्तरस्य । पर्यन्तोऽवसानम् ।यद्वाप्रपञ्चनं प्रकाशनं प्रपकस्तस्य कोऽवधिः । कियत्पबन्तं प्रकाशित इलाशयः ॥ भीको मिथ्याभूतः पौरापवादः पौरकर्तृकदोषकथन तेनोद्विमन संभ्रान्वेन राज्ञा रामेण निर्वासितां गृहाच्याविता देवयजनसंभवां यागभूमिजातां परित्यज्य लक्ष्मणः प्रतिनिइत्त इति यत् एष पर्यन्त इति योजना ॥ शरीरकुसुमस्य कुसुमसदृशशरीरस्य । दैवदुर्विलासस्य दैवदुश्चेष्टितस्य परिणामः फलोपधानम् । क इति दु.ख्यते ॥ नूनमिति । क्रव्यागणेषु व्यावादिषु परितः समन्तात्परिचारयत्सु सत्सु मण्डलीकृस व्याप्नुवत्सु सत्ल । संत्रस्तया त्वयाहं शरणमिति स्मृतः नूनं संभावये ॥ २३ ॥ दुरात्मनां दुर्बुद्धीनाम् । क्षिप्रकारिता असमीक्ष्यकारित्वम् ॥

  उ. रा. ११