पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
उत्तररामचरिते

श्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ।

 लव-नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः ।

 जनक:--किं न प्रणीतः कविना ।

 लव-प्रणीतो न प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य ।

 जनकः किमर्थम् ।

 लव:–स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति ।

 जनक: सर्वमिदमाकूततरमस्माकम् ।

 लवः-महती, पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्तेवासिना हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मदाता प्रेषितः ।

 कौसल्या-भादावि दे अस्थि ।

 लवः-अस्त्यायः कुशो नाम ।

 कौसल्या-जडेत्ति भणिदं होदि ।


 १. भ्रातापि तेऽस्ति ।

 २. ज्येष्ठ इति भणितं भवति ।


त्प्रतिपाद्यार्थज्ञानवान् । किंनामधेयानीलारभ्य केषु प्रसूतानीत्यन्तस्य ब्रूहीत्यनेनान्चयः । पश्यामः अस्मज्ञातविषयकवचनं शृणुम इत्यर्थः । कथाविभागः कथकदेशः ॥ प्रणीतः किं न प्रवन्धः कि नोक्तः किमिति वा न प्रकाशितः न श्रावितो नाध्यापितश्च ।। तस्य रामायणस्य कोऽपि अनिर्वारितः एकदेशोंऽशः । स च सप्तमे वक्ष्यमाणान्तनीटकार्थक इति ज्ञेयम् ॥ अनन्धान्तरेण श्राव्यप्रवन्धातिरिक्तदृश्यप्रबन्धरूपकरूपेण वा रसवान् करुणाद्भुतरसप्रतिपादकः सर्वोकर्णनादितररसप्रतिपादक: अभिनेयः सत्वाशिकादिचतुर्विधाभिनयप्रकाश्योऽर्थः अभिधेयः यस्य तथोकीकृतः।" मुनिर्याल्मीकिः । तौर्यत्रिकसूत्रधारस्य नृत्तगीतवादित्रशास्त्राचार्यस्य भरतस्य भावरागतालशास्त्राचार्यरवमूलकृत्तदायक्षरघटितभरतनामकस्य ॥ तं प्रबन्धं अंप्सरोभिः प्रयोज्यकर्तृभिः प्रयोजयिष्यतीखेतदर्थम् ॥ सर्वमिदं प्रणीतस्याप्रकाशनं प्रबन्धान्तरेण करण भरतं प्रति प्रेषणं चाकूततरं गूढार्थकम् ॥ आस्था आवश्यकत्वप्रकारकेच्छा । अनुयात्रिकोऽनुवरः । प्रमादस्यानवधानप्रयुक्तप्रतीतस्य च्छेदनार्थ निवृत्त्यर्थमसभाता मसहजः ॥ आर्यः पूज्यः ॥ ज्येष्ठ इति भणितं भवति अग्रज इति ध्वनितं भवति ॥