पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
चतुर्थोऽङ्कः

 कौसल्या मुलहसोक्खं दाणि बालत्तणं होदि । (निरूप्य ) अम्हहे, एदाण मज्झे को एसो रामभद्दस्स कोमारलच्छीसावट्ठम्मेहिं मुद्धललि- देहि अङ्गेहिं दारओ अम्हाणं लोअणे शीअलावेदि ।

 अरुन्धती--(स्वगतम् । सहर्षोत्कण्ठम् ।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । नत्वेवं विद्मः कतरोऽयमायुप्मतोः कुशलवयोरिति । (प्रकाशम् ।)

  कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो
   बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
  पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनो
   झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥

 कञ्चकी-नून क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ।

 जनकः--एवमेतत् । अस्य हि

 चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
  भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।


 १. सुलभसौख्यमिदानी बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्स्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैरिकोऽस्माकं लोचने शीतलयति ।


इति श्रुतिः स्फोरिता॥१८॥शिष्टागमनप्रयुकाध्ययनाभावः शिष्टानध्ययनः॥सुलभ सौख्य यस्मिस्तथोक्तम् । अनेन 'वृद्धो जनो दुःखशतानि मुझे इत्युक्तवार्द्धकनिन्दा न्यज्यते । रामभद्रस्य कौमारलक्ष्मया चन्द्रवदाहादकारिरामशैशवस्य योऽयमवष्टम्भ: आलम्भनं तत्सहितैः । लक्ष्मीपदेन शैशवस्य स्पृहणीयत्वं व्यज्यते । संबन्धशब्दत्वात्साक्षेपस्वेऽपि समासः । मुग्धललितैः सुन्दरसुकुमारैः ।। हर्षः इष्टागमात्प्रीतिः । उत्कण्ठा आकारादिविषयाभिलाषः । भागीरथीनिवेदितं गड्डया कथितं रहस्यं गूटं बत्कर्णयोरमृतबद्भोग्यम् । तदिदं नामायुष्मतोः कुशलवयोर्मध्ये कतरोऽयमिति कुश इति वा लब इति वा न विद्यः न जानामि । 'अस्मदो योश्च' इत्येकत्वे बहुवचनम् । कुघलयेति । शिखण्डकमण्डनः कामपक्षधरो बटूनां ब्रह्मचारिणां परिषद सदः श्रिया कान्त्या सभाजयन्नलकुर्वन् । अमृताजनसमृतमयमजन शीतलत्वादिभिः । तद्धि रमणीयमिति कविसमयप्रसिद्धिः॥१९॥ मन्ये अनुमिनोसि ॥ एतद्भवता संभाव्यमानमेवं वस्तुभूतम् । चूडाचुम्बितेति । चूडाचुम्बितानि संयुक्तामाणि कङ्कपत्राणि बाणपक्षा यस्मिस्तथो'साम् । पृष्टतोऽभितः पृष्ठे। दूयोर्भागयोरित्यर्थः । भस्ममय स्तोकमल्पं पवित्रं पावनं लाञ्छन पुण्ड्रं यस्य स तथोक्तम् । उरः रौरवीं ऐणेयी त्वचं धत्ते । मौात्मकरश-