पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
उत्तररामचरिते

 अरुन्धती----आश्वसिहि राज्ञि 1 बाप्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि ! यदयोचदृष्यशृङ्गाश्रमे युष्माकं कुल- गुरुः । भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदक भविष्यतीति ।

 कौसल्या- कुंदो अदिक्कन्दमणोरहाए मह एदम् ।

 अरुन्धती-तत्कि मन्यसे राजपत्रि, मृधोद्यं तदिति । न हीदं क्षत्रिये मन्तव्यम् ।

  आविर्भूतज्योतिषां
   ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् ।
  भद्दा ह्येषां वाचि लक्ष्मीनिषक्ता
   नैते बाचं विष्ठतार्थी वदन्ति ॥१८ ॥

(नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।)

 जनक:---अये, शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः ।


१. कुतोऽतिक्रान्तमनोरथाया ममैतत् ।


जाद्यभावेऽपि यत्र तलाभो लोकान्तरे तत्र गमनस्यापि मदीयजीवनयोनिदुरितप्रतिबन्धकामेति भावः ॥१७॥ दृढेन वमलेपेन बन्धकद्रव्यलेपेन यः प्रतिबन्धो विश्लेषानुत्पादस्तेन निश्चलं हतजीवितं निन्धजीवितम् ॥ आश्वत्तिहि आश्वासं दुःखलधूकरण प्रामुहि । बाष्पस्य दुःखाश्रुणः विश्रामो विच्छेदोऽपि । अपिशब्देन बाष्पादिकं समुन्चीयते । अन्तरेषु मध्ये मध्ये। अन्यच्च बाष्पवित्रामादन्चदपि । यत्कुलगुरुर्वसिष्ठः अवोचत्तन स्मरसि किम् । भवितव्यं तथेति परित्यागरूपेण भवनं परिहार्यमिति हेतोः । उपजातमापाततो जातम् । न त्वन्ततस्तथेत्यर्थः । कल्याणोदक मालपर्यवसायि भविष्यतीति चदवोचतन्त्र स्मरसि किम् ॥ अतिक्रान्तमनोरथाया असंभाव्याभिलाषविषयायाः ॥ सृषोद्यमिति मिथ्यावचनामिति । आविर्भूतेति । आविर्भूतज्योतिषां परज्योतिर्विषयकापरोक्षज्ञानवतां ब्राह्मणानां विप्राणां ये व्याहारा उक्तयस्तेषु संशयः प्रामाण्यसंदेहो माभूत् नोत्पत्त्यः । हि यस्मादेषां ब्राह्मणानां वाचि भद्रा मङ्गलकरी लक्ष्मी अर्थोपधायकत्वातिशयः । निषका निससङ्गिनी भवति । एते आविर्भूतज्योतिषो भाह्मणाः विलुतार्थामसदों वावमेकामपि चिरं न वदन्ति नोचारयन्ति । पूर्वत्र बहुवचनं तदीयसर्ववानामपि प्रामायबोधनार्थम् , अत्रैकवचन तु तदीययत्किन्चितचोऽप्यप्रामाण्यं नेति बोधनार्थमिति दृष्टव्यम् । अत्र श्लोके 'सत्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकत । अत्रा सखायः सख्यानि जानवे भदैषां लक्ष्मीनिहिताधिवाचि ॥'