पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
चतुर्थोऽङ्कः

 जनकः-(उपसृत्य ।) भगवत्यरुन्धति, वैदेहः सीरध्वजोऽभिवादयते।

  यया पूर्तमन्यो निधिरपि पवितस्य महसः
   पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः।
  त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा
   जगद्वन्द्या देवीमुषसमिव वन्दे भगवतीम् ॥ १० ॥

 अरुन्धती-अक्षरं ते ज्योतिः प्रकाश्यताम् । स त्वां पुनातु देवः परोरजसा य एष तपति ।

 जनकः—आर्य गृष्टे, अप्यनामयमस्याः प्रजापालकस्य मातुः ।

 कञ्चकी--(खगतम् । निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः(प्रकाशम् ।) राजर्षे, अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चामिद्धिमनल्पकाःप्र. तियन्तीति दारुणमनुष्ठितं देवेन .

 जनकः-(सरोषम् ।) आः, कोऽयममि मास्मात्प्रसूतिपरिशोधने । कष्टमेववादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।


चयतीत्यर्थः ॥ ययेति । पूर्तमन्यः आत्मविषयकपूतत्वप्रकारकशानवान् । त्रिलोकीमाङ्गल्या लोकत्रयमङ्गलहेतुभूतामुषसमिव प्रातःसंध्यादिदेवतामिव स्थिताम् । अवनितललीनेन शिरसेत्युपलक्षणमष्टाङ्गप्रणामस्य ॥ १०॥ अक्षरं प्रकृतिपुरुषवत्खरूपखभावविकाररहितं ज्योतिः स्वयंप्रकाशं प्रकाश्यतां प्रतिभासत्ताम् । 'अक्षरमम्बरान्तघृतेः' ज्योतिश्चरणाभिधानात्' इत्यधिकरणद्वयार्थः प्रत्यभिज्ञापितः। देवः जगत्सष्टथादिलीलावान् । रजसा समस्तदोषजावेभ्यः परः । संवन्धसामान्ये षष्टी । 'परोरजा' इति वा पाठः । रजसः पर इति विग्रहः । वाहुलकात्समासः । पृषोदरादित्वादोकारश्च । य एषस्तपति स त्वां पुनातु । अनेन 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणार्थः सूचितः । परोरजसामित्यनेन 'उदेति ह वै सर्वेभ्यः पाप्मभ्यः' इति श्रुतिश्चोदिता ॥ अना मयमारोग्यम् । प्रजापालकस्य मातुः राममातुः कौसल्यावाः । इदं च साभिप्रायम् । अनामयमित्यनेन एवं दुःखिनी कियचिरं जीवयिष्यतीत्युपालम्भो व्यज्यते ॥ निरवशेष निःशेषमतिनिष्टर अतिरूक्षम् । अनेनेषमन्युना 'अप्यनामयं प्रजापालकस्य मातुः- बनेन व्यज्यते न क्रोधेन । देवस्य भवितव्यतायाः दुर्योगः दुःखजननसनाहः । पस्किल यस्माद्धेतोः प्रवृत्ता प्रसूता बीभत्सा जुगुप्सनीया किवदन्ती जनश्रुतिः येषां तथोकाः । 'किंवदन्ती जनश्रुतिः' इत्यमरः।पौराः पुरेभवा ।तस्मादेवटुयोगः कोऽपीति पूर्वेणान्वयः। अनल्पकाः अत्यल्पाः । अग्निशुद्धि न च प्रतियन्ति न विश्वसन्ति च । इति पूर्वोक्ताद्धतो: दारुणं परित्यागात्मकं रौक्ष्यम् ॥ अभिशुद्धिरिति क इति योजना । प्रस्ताव इति शेषः ।

  उ. रा. १०