पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
उत्तररामचरिते

 अरुन्धती-अत्र कः संदेहः ।

  संतानवाहीन्यपि मानुषाणां
   दुःखानि संबन्धिवियोगजानि ।
  दृष्टे जने प्रेयसि दुःसहानि
   स्रोतःसहरिव संप्लवन्ते ॥ ८ ॥

 कौसल्या-कहं णु खु बच्चाए मे वहुए वनगदाए तम्सा पिदुणो राएसिणो मुहं दसम्ह।

 अरुन्धती-

  एष वः श्लाघ्यसंबन्धी जनकानां कुलोद्वहः ।
  याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥ ९ ॥

 कौसल्या-एसो सो महाराअस्स हिअअणिबिसेसो वच्चाए मे वहूए पिदा विदेहराओ सीरद्धओ । सुमारिदम्हि अणिवेदरमणीय दिवहे। हा देव, सवं तं पत्थि ।


 १. कथं नु खल्ल वत्साया मे बवा बभगतायास्तस्याः पितू राजर्षेर्मुख दर्शयामः।

 २. एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजो सीरध्वजः । सारितास्मि अनिदरमणीयान्दिवसान् । हा देव, सर्वे तन्नास्ति ।


 धृतिम् । संस्तभ्य प्रतिहतगति कृत्वा । अनुरुञ्चखानुतिष्ठेत्यर्थः। सम युगपत् । अवतरन्ति प्राप्नुवन्ति । उद्वर्तमानमुद्तं मूलबन्धनं मूलनियन्त्रणं यस्य तथोकम् । शिथि. लबन्धनमित्यर्थः । पर्यवस्थापयितुम् ॥ संतानेति । संतानेन अविच्छेदेन वाहीनि प्रवहन्त्यपि दुःखानि प्रेयसि जने दृष्ठे सतीत्लन्वयः । सोत.सहस्रैरनन्तैः स्रोतोभिः । उपलक्षणे तृतीया । संप्लवन्ते महोबीभवन्ति ॥८॥ वध्वाः मुषायाः ॥ एष इति । चस्मै य जनकं सार्थचितुम् । 'जियार्थ-' इति चतुर्थी । ब्रह्मपारावणं स्वरूपेण गुणैश्च अनदधिकाशयब्रह्मत्वयुक्तपरमात्मप्रतिपादकवेदान्तभाग जगौ उपदिदेश । स एष इत्ति चोजना ॥९॥ हृदयनिर्विशेषः । अन्तरा इत्यर्थः । सीरः वजो यस्य तथोकः । अनिबैदाश्च ते रमणीयाश्च । न विद्यते निवेदश्चित्तग्लानिर्वेषु तथोक्ताः । रमणीया आनन्दहेतवः । तथाविधान्दिवसान्सारितास्मि दिवसविषयकम्मरणवती कृतास्मि । सर्वमेतदु पलभ्यमानं सर्व नास्ति असत्कल्पम् । हा दुःल्यते ॥ अभिवादयते । प्रणामेनाशीवी-