(नेपथ्ये)
इत इतो भगवतीमहादेव्यो।
जनकः- अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती । (उत्थाय ।) का पुनर्महादेवीत्याह । (निरूप्य ) हा हा, कथमय महाराजस्य दशरथस्य थर्मदाराः प्रियसखी मे कौसल्या । क एतां प्रत्येति सैवेयमिति नाम ।
आसीदियं दशरथस्य गृहे यथा श्रीः
श्रीरेव वा किमुपमानपदेन सैषा ।
कष्ट बतान्यदिव देवक्शेन जाता।
दुःखात्मकं किमपि भूतमहो विकारः ॥ ६ ॥
य एव मे जनः पूर्वमासीन्मूतों महोत्सवः ।
क्षते क्षारमिवासय जातं तस्यैव दर्शनम् ॥ ७ ॥
(ततः प्रविशत्यरुन्धती कौसल्या काचुकी च ।)
अरुन्धती-ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वदेह इत्येवं यः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महाननध्यवसायः ।
कझुकी-देवि, संस्तभ्यात्मानमनुरुध्यस्त्र भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि।
कौसल्या--'ईरिसे काले मिहिलाहिवो मए दिवबो ति समं एव सबदुःखाइ ओदरन्ति । ता ण सकृणोमि उचट्ठमाणमूलबन्धणं हिअ पज्जवत्थावेदुम् ।
१. ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यबतरन्ति । तस्मान्न शक्नोम्युहर्तमानमूलबन्धन हृदयं पर्यवस्थापयितुम् ।
आसीदिति । इयं कौसल्या दशरथस्य गृहे श्रीरिवासीदथवा श्रीरेवासीत् । उपमानत्वबोधकयथाशब्देन किम् । न किमपीलर्थः । अत्रोपमालकारः, रूपकालंकारः,आक्षेपालकारश्च । सैषा श्रीसदृशी श्रीभूता वा इयं कौसल्या दैववशेन देवेच्छया अन्यदिव जातान्यतमिव संवत्ता । अलक्ष्मीरिव जातेत्यर्थः । अनेवेति वर्तते । दुः-खात्मक दुःखैकरसं किमपि वाचामपरिच्छेद्यं भूतं प्राणिविशेषः जाता । साक्षादलक्ष्मी जातेत्यर्थः । यथा श्रीः धीरेव वेखनयोः प्रतिद्वन्द्वभूतमिदमहो विकारः प्राणिनामुपचयापचयरूवागन्तुको विस्मयनीय इत्यर्थः । कष्ट यत्तेति दुःखातिशये॥६॥य इति । य एष जनः कौसल्या ॥७॥ आदेशः आज्ञा । अनध्यवसायः संशयः ॥ आत्मानं