पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
उत्तररामचरिते


हा पुत्रि,

  अनियतरुदितस्मितं विराज-
   कतिपयकोमलदन्तकुमलायम् ।
  बदनकमलके शिशोः स्मरामि
   स्खलदसमञ्जसमच जल्पितं ते ॥४॥

भगवति बसुंधरे, सत्यमतिदृढासि ।

 त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु-
  र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
 विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन-
  स्तस्यास्त्वहुहितुस्तथाविशसनं किं दारुणे मृष्यथाः ॥ ५ ॥


न नश्यति । निर्माणभागः सृष्टिफलम् । चेन निर्माणभागेनाकन्दितुमपि रोदितुमपि । अपिशब्दात्कियान्तरानहत्वं सूच्यते । दोषवादहेतुकत्वात्त्यागस्येति भावः । अनियतेति । अनियतहदितस्सितं अव्यवस्थितरोदनहासनम् । विराजन्तः कतिपये त्रिचतुराः कोमलाः ललिताः दन्ता एव कुमलाप्राणि यस्य तथोक्तम् । तेन कुनमलापशब्दस्य न पूर्वनिपातः । न वा दन्तशब्दस्य दतादेश: । स्खलदपूर्णमसमजसं पूर्वापरसंगतिरहितं मन मुन्दरं जस्पितं वचनं यस्य तथोक्तं ते वदनकमलकं वदनमेव कमलम् । अनुकम्पायां कन् । स्मरामि उत्कण्ठापूर्वकं चिन्तयामि । अनानियतरुदितस्मितं स्खलदसमञ्जसमिति विशेषणानुगुण्याद्वदनकमलकनित्यत्र परिणामालंकारः । केवलकमलस्य अकृतक्रियान्वयित्यानुपपत्तेः । 'परिणामः क्रियार्थद्विषयी विषचात्मना' इति लक्षणात् । दन्तकुमलाग्रमित्यत्रापि क्रियान्वयविचक्षायां परिणामः रूपकं वा॥४॥भगवतीति । अतिदृढासि अतिकठिनासीति सत्यम् । अत्र 'यो वा बिभर्ति काटिन्चं तस्मै भूम्यात्मने नमः' इति वचन द्रष्टव्यम् । तब वसुंधरात्थप्रयुक्तधैर्येण पुत्रीनाशोऽप्यकिंचित्कर एवेत्युपालम्भो व्यज्यते । त्वमिति । यस्याः सीताया माहात्म्यममानुषत्वं त्वं वेत्थ । विदुरित्यस्य विभक्तिवचनयोविपरिणामेन योजना। वहिर्वेद, मुनयो विदुः, नसिष्ठगृहिणी अरुन्धती वेद जानाति, गङ्गा च वेद जानाति । यदि वा किंच रघोः कुलगुरुः रघुवंशजनकस्तदाचार्यो वसिष्ठो वा । देवः दीप्तशील: भास्करः खयं बैद परानपेक्षं जानाति । अत्र भूम्यादीनामन्योन्यनिरपेक्षप्रामाण्यप्रतिपत्त्यर्थे कियैकशेषाकरणाद्विदुरित्यत्र न मध्यमपुरुषः प्रयुक्तः । अत एव पुरुषवचनविपरिणामेन भित्रानि वाक्यानि । यो प्रसूतवती तस्यास्तथाविधायाः पुनः शुद्धि गतायाः । अग्निप्रवेशादित्यर्थः । त्वदुहितुः सीतायास्तथाविशसनमन्यादृशहिंसनं किं मृष्यथाः कथं सोदवलसि ॥ ५॥ गृष्टिः दशरथकञ्चकी तेन । निरूप्य हेतुभिर्विचार्थ । इयं सैवेति एता का प्रत्येति प्रत्यभिजानाति । नाम प्रसिद्धौ । न कोऽपीत्यर्थः ।