पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
चतुर्थोऽङ्कः

(ततः प्रविशति जनकः।)

 जनक:--

 अपत्ये यत्ताग्दुरितम्भवत्तेन महता
  विषक्तस्तीवेण अणितहृदयेन व्यथथता ।
 पटुर्धारावाही नव इव चिरेणापि हि न मे
  निकृन्तन्ममर्माणि क्रकच इव मन्युविरमति ॥ ३॥

कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृतिमिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि मम दुग्धदेहो न पतति । अन्धतामिस्रा ह्यसूर्या नाम ते लोका प्रेत्य तेभ्यः प्रतिविधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यन इव न मे दारुणो दु:खसेवेगः प्रशाम्यति । अयि मातः देवयजनसंभवे, ईदृशस्ते निर्माणभागः परिणतः, येन लजया स्वच्छन्दमप्वाक्रन्दितुं न शक्यते ।

नित्यलग्नेन सीताशोकेन सीतानिमित्तदुःखेन तप्यते तप्तो भवति । जरन् वृद्धः अन्तः प्रज्वलद्वह्निः । वनस्पतिः पुष्पहीनफलवृक्षः॥ २ ॥ मिश्रविष्कम्भः। संस्कृतप्राकृतात्मकविकम्भ इत्यर्थः ॥ अपत्य इति यस्मात् अपत्ये । सीतायामित्यर्थः । तादृग्दुरितं कोलीनरूपपापं व्यसनं वाभवत् । तीब्रेणातिप्रचुरेण तेन दुरितेन व्यथयता दुःखं प्रापितेन अणितहृदयेन विषक्तः प्रतक्तः । पटुः तीक्ष्णः । धारया वहतीति धारावाही । अत्यन्तनैरन्तबैंण प्रवाहील्यर्थः । चिरेणापि चिरकालेनापि नव इव स्थितः मर्माणिहृदयादीनि निकृन्तन् छिन्दन् ककच इव कराल इव स्थितः। मन्युः शोकः कोप वा न विरमतिन शाम्यति॥३॥जरया वचोहान्या । दुरासदेन दुःसहेन । दुःखेन सीताविश्लेषजेन । पराको द्वादशदिनोपबासकृच्छ्रम् , सांतपनं चान्द्रावणविशेषः, एवमादिभिः कायशोषकनियमविशेषैः शोषितान्तःशरीरधातोर्मे कथमवष्टम्भ एव पातप्रतिबन्धकावलम्बनमेव । दग्धदेहः हतहृदयमितिवत् निन्दायां दग्धशब्दः । अद्यापि न पततीति योजना । अनेकसामग्रीसमवधानेऽपि पाताभाचो विस्मयनीय इति भावः । तर्हि भूगुपतनादिना त्यज्यतामित्यत्राह-अन्धतामित्रा इति । आत्मानं मन्तीति आत्मघातिन इति विग्रहः । 'सुष्यजातौं' इति णिनिः । ये बलास्क्रियन्ते तेभ्यः तान्' पातयितुं क्रियार्थे चतुर्थी । असूर्या सूर्यरहिता अन्धतामिस्रा अन्धतमसमयास्ते प्रसिद्धा लोका भरकविशेषाः प्रेल मरणानन्तरं प्रतिविधीयन्ते इत्येवमृषयो मन्यन्ते । 'असूर्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति चे के चात्महनो जनाः॥ इति श्रुतिः । इति धर्मशास्त्रकाराणां मतम् । प्रतिक्षणपरिभावनया संततविचारेण । भू अवकल्कने । अवकल्कनं चिन्तनम् । स्पष्ट्रनिर्भासः विशदप्रकाशः । प्रत्यग्र इव नव्य इव न प्रशाम्यति