पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
उत्तररामचरिते

 सौधातकि:-किंणिमित्तम् ।

 दण्डायन:-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तदस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।

 सौधातकिः-तंदो किंति आअदो।

 दण्डायनः-संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् ।

 सौधातकि:-अवि अज्ज संवन्धिणीहिं समं णिउत्तं दंसणं से णवेत्ति ।

 दण्डायन:-~संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा स्वयमुपेत्य खेहादयं द्रष्टव्य इति ।

 सौधातकिः---जह एदे दृविरा परप्परं एव मिलिदा, तह अम्हे बि बडुहिं सह मिलिअ अणज्झाअमहस्सवं खेलन्तो मणेम्ह । अह कुत्थ सो जणओ।

 दण्डायन:-तथायं प्राचेतसवसिष्ठाबुपास्य संप्रत्याश्रमस्य बहिवृक्षमूलमधितिष्ठति । य एषः

  हदि नित्यानुषक्तेन सीताशोकेन तप्यते ।
  अन्तःप्रसप्तदहनो जरन्निव वनस्पतिः ॥२॥

(इति निष्क्रान्तौ ।)

इति मिश्रविष्कम्भः।


 १. किंनिमित्तम् । २. ततः किमित्यागतः। ३. अप्यद्य संबन्धिनीभिः समं निवृत्तं दर्शनमस्स मवेति । ४. यौते स्थबिराः परस्परमेव

मिलिताः, तथावामपि बटुभिः सह मिलित्वानध्यायमहोत्सवं खेलन्तो मानयावः । अथ कुत्र स जनकः ।

आपस्तम्बादयः। एव कल्पं मांसवर्ज मधुपर्कानुष्ठानपरग्रन्थं व्याहरन्ति बदन्ति । नियु. त्तमांसो वजितमांसः। यद्देव्या इत्यादि । वैखानसः छानप्रस्थः । चन्द्रद्वीपतपोचने तपस्तप्यमानस्य तपश्चरतः कतिपयः संवत्तरः । गत इति शेषः । चन्द्रद्वीप इति कश्चिद्वीपविशेषः ॥ प्राचेतसं वाल्मीकिम् ॥ संबन्धिनीमिः दर्शनं निवृत्त नवेति ज्ञायते अपीति योजना अपि ॥ अयम् । जनक इत्यर्थः । नेहाद्रष्टव्यः प्रेम्णा दर्शनीयः ॥ स्थविराः वृद्धाः । अनध्यायः अध्ययनाभावः स एव महोत्सवः । आनन्दहेतुत्वादुत्सववरूपणम् ॥ उपास्य परिचर्च। हदीति य एषः। जनक इत्यर्थः हृदि नित्यानुषक्तेन