पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
चतुर्थोऽङ्कः

 दण्डायनः-आः, किमुक्तं भवति ।

 सौधातकि:-जेण परावडिदेण एव सा वराई कबिला कल्लाणी बलामोडिअ सडसडाइआ।

 दण्डायन:--समांसो मधुपर्क इत्याम्नायं वहमन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरी महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्म धर्म- सूत्रकाराः समामनन्ति ।

 सौधातकि:- भो, णिगिहीदोसि ।

 दण्डायन:---कथमिव ।

 सौधातकिः-जेण आअदेसु वसिमिस्सेसु बच्छदरी विससिदा । अन्ज एब्ब पच्चाअदस्स रापसिणो जणअस्स भअवदा बम्मीहणा धहिमहर्हि एव णित्तिदो महुवको। बच्छतरी उण विसज्जिदा ।

 दण्डायन:-अनिवृत्तमांसानामेवं कल्प व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः ।


 १. येन परापतितेनैव सा बराकी कपिला कल्याणी बलात्कृत्य मडमडायिता।

 २. भोः, निगृहीतोऽसि ।

 ३. येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजधैर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वतितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता।


चाय । तन्नियामको भूत्वेत्यर्थः । प्रलपसि अनर्थक वदसि ॥ हुमिति प्रो ॥ अथ किमित्यजीकारे । एष कोऽपि व्याघ्र इति मचा ज्ञातमित्यन्वयः। 'संयोगे' इतिहखः। किमुक्तं भवति कुत एवमुक्तं भवति । हि तेन वसिष्ठेन हि । वराकी प्रतिकूलदैवा । कपिला नाम गवामवान्तरजातिः । कल्याणी वत्सतरी। विहायनीत्यर्थः । बलात्कृत्य मडमडाथिता। आलम्भनशब्दानुकरणमिदम्। तथाविधशब्दयुक्ता कृतेत्यर्थः । आलच्छति यावत् । मडायितेत्यर्थः । 'मृगातेर्मपरिहखडववन्नाजबडमलमडा' इति प्राकृतव्याकरणसूत्रेण मृदातोमंड इत्यादेशः । तेन व्याघ्र इति ज्ञातमिति पूर्वेण संबन्धः॥ आनाय धर्मशास्त्रम् । महांश्चासौ उक्षा चेति विग्रहः । निपातनादकारान्तत्वम् । पचन्ति श्रपयन्ति । समामनन्ति उपदिशन्ति । अत्र मया व्याघ्र इत्यादिना गुरुतिरस्कृतिरुपद्रव उक्तः ॥ भो निगृहीतोऽसि पराजितोऽति ॥ आगतेष्वेवेति । मिनशब्दः पूज्यताद्योतकः । 'एवार्थे एव्व' इति शाकृतसूत्रेण एव्यादेशः । दधिमधुम्यामित्यनेन दक्षिा मधुसंस्कृष्टमित्यापस्तम्बवचनमभिप्रेतम् । निर्वर्तितः निष्पादितः । वत्सतरी पुनरिति । विसर्जिता मुक्ता 1 न लालब्धेत्ययः ।। व्याहरन्ति केचिदिति । केचिद्धर्मशास्त्रकारा