सामग्री पर जाएँ

पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अनन्ताचार्यकृतम्--

इदानीं पूर्वोक्तप्रकारणानात्मविदः कर्मनिष्ठाः सन्तः कर्म कुर्वन्त एव ये जिजीविषन्ति तान्प्रत्युच्यते-

अन्धं तम इति । षडनुष्टुभः । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । ये जना अविद्या विद्याया अन्याऽविद्या कर्म तां केवलामुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्तीत्यर्थः।अविद्येत्यत्र तदन्यार्थे नञब्राह्मण इतिवत् । ते प्राणिनोऽन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति ।संसारपरम्परामनुमवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसः संसाराभूय इव। इव एवार्थः। बहुतरमेव तमस्ते प्रविशन्ति। ते के ये उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञान एव रताःकर्म हित्वा विहितकर्माननुष्ठानेन प्रत्यवाये सत्यन्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः । अन्येऽमुं मन्त्रेणोच्यते व्याकुर्वन्ति । यथा‌-आत्म-याथाथ्र्यज्ञानस्यैवान्यथाज्ञानानन्दयाऽऽवश्यकत्वोपपादनायान्यथाजान्स्योक्तमसुर्यलोकसाधनत्वमनूद्यान्यथाज्ञानानिन्दनस्य ततोऽप्यधिकानर्थसाधनत्वमन्येन मन्त्रेणोच्यते । न तु केवलकर्मनिन्दनं तदभावे विद्याया अध्यवसायत्वाभावात्केवलकर्मणामप्रसक्तेः । कुर्वन्नेवेह कर्माणि जिजीविषेदित्येवकरणं कर्मात्यन्तायोगव्यवच्छेदार्थेन केवलकर्मकरणविधानाभावाच्च । अत्रैवं योजना-येऽविद्यामन्यथाज्ञानमुपासते तेऽन्धं तमो नाम नरकं प्रविशन्ति । असन्नेव स भवति । असद्बह्मेति वेद चेदिति श्रुतेः । अथ ये जना विद्यायामु आत्मयाथार्थ्यज्ञान एव रता न त्वन्धतमःसाधनान्यथाज्ञाननिन्दने ते ततोऽन्यथाज्ञानं प्राप्य तमसः सकाशादभूय इव बहुतरमेवान्धं तमः प्रविशन्तीति ॥ ९॥

ज्ञानकेवलकर्मणोः फलभेदमाह–अन्यदेवेति ।विद्ययाऽऽत्मज्ञाने- नान्यदेव फलममृतरूपमाहुर्बह्मवादिनः । अविद्यया केवलकर्मणा साध्यमन्यदेव फलं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकाना अधस्तस्माद्विद्यां प्रशसन्तीत्यादिश्रुतेः । कथमेतदवगतमित्यत आह-इतीति । इत्येवं शुश्रम श्रुत्वन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपकलतो विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इति भावः । द्वितीयपक्षे तु विद्ययाऽऽत्मयाथार्थ्यज्ञानेनान्यदेव मोक्षैकदेशलक्षणं फलं प्राप्यमाहुवृद्धा अविद्ययाऽन्यथाज्ञाननिन्द-