क्यमिति कर्मणोऽप्रयोग आख्यातोपयोग इत्यपादानत्वस्याविवक्षया शेषे षष्टी धीरेभ्य इत्यर्थः । इति पूर्वार्धोक्तप्रकारेण वयं शुथुम श्रुतवन्तः ॥ १० ॥ अत्रायं संग्राहकः श्लोकः-
अन्यत्फलं कार्यमुपासतां स्यादुपासतां कारणमन्यदेव । |
यह एवमत उभयोः समुच्चयो युक्त इत्याह-संभूतिमिति । यः पुमान्संभूतिं चावर्णलोपः पृषोदरादित्वात् । असंभूतिं प्रकृतिमथदा सम्पग्भवत्यस्याः कार्यमिति संभूतिः कारणं पूर्वापरसंदर्भानुसारेण वकतुरभिप्रायस्यामिधानियामकत्वात्प्रकतिस्तां च परं विनाशं च । चैत्यर्थे । विनाशोऽस्यास्तीति विनाशं कार्यम् । अर्शआद्यच् । तदुभयं कार्यकारणोपासनाद्वयं सह समुच्चितं फलदमिति वेद जानाति स विनाशेनहिरण्यगर्भाख्यकार्योपासनेन । मृत्युमनैश्वर्यादिदुःखजातं तीर्त्वाऽतिक्रपासंभूत्या । अथवा पूर्वोक्तप्रकारेण संभूत्याऽव्याकृताख्यकारणोपासनेन ।यथाऽस्मदपेक्षयाऽधिकजीवनेन देवा अमरास्तथाऽऽपेक्षिकमभुतं प्रकृतिलयमश्नुते प्राप्नोति ॥ ११ ॥ अत्रायं संग्राहकः श्लोकः--
उपासने कार्यनिदानयोस्ते समाश्रिते वेद परस्परं यः । |
अधुना कर्मणोपासनां समुच्चिचीषन्प्रत्येकमुभयं फलं प्रदशर्य निन्दति ।अथवा व्याकृताव्याकृतोपासनयोः फलं प्रदशर्य कर्मणां देवतान्तरोपसनानां च फलं दर्शयति-अन्धं तम इति । ये नरा अविद्यां विद्या ज्ञानं तद्भिन्नाऽविद्या तां कर्म केवलमुपासते तत्पराः सन्तोऽनुतिष्ठन्ति तेऽन्धं तमो जन्ममरणरूपं प्रविशन्ति प्राप्नुवन्ति व उ ये त्वशुद्धचिवह अपि कर्म न कुर्वन्ति किंतु केवलाय विद्यायां देवतोपासनापां स्ता । आसक्तास्ते कर्माधिकारे सत्यपि कर्मत्यागेन प्रत्यवायरूपदोपयुः सन्तस्ततः कर्मानुष्ठातृभ्यो भूय इवाधिकमिव तमः संसरणलक्षणं ।