पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यविवृतिः ।-

सर्वोपाधिव्यभिचारार्थत्वात्-रमधातोरपि डः । तेषामिमेऽसुर्याः । तद्धिता इति बहुवचनस्यानुक्तसंग्रहार्थत्वादिदमर्थे यत् । नाम प्रसिद्धाः ।ते यच्छब्दस्थाने तच्छब्दः । ये लोका लोक्यतेऽनुभूयते कर्मफलं येषु ते लोका जन्मनि स्थानानि वा तिर्यगादीनि नरकादीनि चान्धेन तमसा विचारशून्यत्वात्स्वामाविकेनाज्ञानेनान्धतामिस्रेण वाऽऽवृता आच्छादितज्ञाना निरिन्द्रियप्रचारा वा तान्पूर्वोक्तोभयविधेष्वन्य- तरान्स्वकर्मानुसारेण तत्रोत्पद्य ते जना नराः प्रेत्यापि मरणं प्राप्य पुनरपि गच्छन्ति प्राप्नुवन्ति । तच्छब्दोक्तान्निर्दिशति--ये के च ।अनेन जातिगुणादिनिरपेक्षत्वं सूच्यते । आत्महनो यथा गुरूणामवज्ञाकारी गुरुघातीत्युच्यते तथाऽतिपूज्यस्य सर्वप्रकाशकस्याप्यात्मनो देह एवाहं नाऽऽरमा कश्चनास्तीत्यवज्ञाकारिण आत्मघातिनस्ते । अनेन देहान्तरप्राप्तिरपि नरदेहकृतसंचितकर्मबीजनिबन्धनेति सूचयति । प्लवाह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनदन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ १ ॥ नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्तीति च मुण्डकोपनिषद्युक्तत्वात् ।तानहं द्विषतः क्रूरान्ससारेषु नराधमानू । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २ ॥ इति भगवद्वाक्याञ्च । प्राणपोषणार्थं नानाविधकाम्यकर्मपराणां पुनः पुनः संसरणेन मुक्तिर्नास्तीति तात्पर्यम् ॥ ३ ॥ अत्रायं संग्राहकः श्लोकः- स्वात्मानभिज्ञा निजघातिनस्ते प्रमीय मत्य असुपोषिभोग्यान्। विचारशून्यानतिदुःखयुक्तान्प्रयान्ति देहान्खरनारकादीन् ॥ १॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
मन्त्रस्तृतीयः संपूर्णः प्रीयतां तेन राघवः ॥ २ ॥

कीदृशः स आत्मा यस्याज्ञानेन जनाः संसरन्तीत्याकाङ्क्षायामाह । अथवा येनेश्वरेण सफलमाच्छादितं तस्य स्वरूपमाह । यद्वाऽनुभवसाधनं प्रदशर्योपक्रान्तमात्मास्वरूपमुपसंहरति । अथवाऽन्ययव्यतिरेकाभ्यां निष्कामकर्मणः श्रवणाधिकारसाधनत्वं प्रदर्श्य् श्रोतव्यमात्मतत्त्वमुपदिशति-अनेजदिति । नैजति चलति तदनेजस्वावस्थापच्युतिश्चलनं तद्वर्जितम् । अनेन बाल्यादीनां जाग्रदादीनां चाभावः । बाल्यावदिष्वपि