पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रामचन्द्रपण्डितकृता- ।-

अनेन मनुष्यस्यैव कर्माद्यधिकार इति सूचितम् । जीवनेच्छोक्त्या संन्यासाधिकाराभावो न जीविते मरणे वा गृधिं कुर्यादरण्यमियादिति श्रीभगवत्पादैरिच्छारहितस्यैव संन्यासेऽधिकारस्योक्तत्वादरण्यं सीजना संकीर्णमाश्रमं संन्यासमित्यर्थः । ननु यदि फलेच्छाया अमावस्तदे-साधनताज्ञानं विना प्रवृत्त्यनुपपत्त्या कर्मणि प्रवृत्तिरेव न स्यादिति चेत्सत्यं भगवदधीनोऽहं तस्माद्सक्तः सततं कार्यं कर्म समाचरेति गीतायामुक्तत्वात्तदाज्ञोल्लङ्घने प्रत्यवायोत्पत्त्या ममानिष्टं स्यादतोऽवश्यं मया कर्माणि कर्तव्यानीत्येवं निश्चयेन नित्यनैमित्तिकादिकाम्यकर्मसु प्रवृत्तेः सूपपन्नत्वात् । ननु कर्मणा बन्धः स्यादिति चेन्न । असक्तो ह्याचरन्कर्म परमाप्नोति पुरुष इति भगवतक्तत्वान्निष्कामकर्मणा मुक्तिरेवेत्यभिप्रायेणाऽऽह-एवं निष्कामकर्माणि कुर्वतस्त्वयि तव विभक्तिव्यत्ययश्छन्दसः । वृक्षे शाखेतिवदधिकरणत्वविवक्षया वा सप्तमी । नरे नृदेहधारिणि कर्म न लिप्यते । कर्मफललेपो न स्यात् ।किंतु चित्तशुद्धिद्वाराऽधिकारसंपत्या ज्ञानसिद्धया मुक्तिरेव स्यादिति भावः । अनेन मनुष्यस्यैव कर्मफलसंबन्ध इति बोधितम् । अधिकार संपादकचित्तशुद्धेः कर्मातिरिक्तसाधनासिद्धत्वं दर्शयति-इतो निष्काम- कर्माचरणादन्यथा प्रकारान्तरं तव मुमुक्षॉर्नास्ति येन त्वं शुद्धचित्तः सन्नधिकारी भविष्यसीत्यर्थः । आदी स्ववर्णाश्रमवाणिताः क्रियाः कृत्वा समासादितशुद्धमानस इति श्रीरामगीतायामुक्तत्वात्। स्ववर्णाश्रमधर्मण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयमिति भगवत्पादोक्तेश्च । यावदिच्छा तावत्कर्मस्वधिकार इति तात्पर्यम् । तावत्कमणि कुर्वीत न निविद्येत यावतेति भागवतात् ॥ २॥ अत्रायं संग्राहकः श्लोकः-- निष्कामकर्माणि तु यावदायुस्त्वमिच्छ कर्तुं खलु यन्मुमुक्षुः ।। एवं तव स्यान्न फलेन लेपो न चित्तशुद्धावितरः प्रकारः ॥ १ ॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । ।
मन्त्रो द्वितीयः संपूर्णः प्रीयतां तेन राघवः ॥२॥

| साधकस्य निष्कामकर्मस्वधिकार इत्युक्तमर्थं काम्यकर्मपराणा बलवदनिष्टफलकथनव्याजेन काम्यकर्मनिन्दया प्रबलयति--असुर्या इति ।असुर्या असुषु प्राणेषु रमन्त इत्यमुराः प्राणपोषका ज्ञानहीनाः केवलप्राणपोषिणो देवा अप्यमुरा एव । अन्येष्वपि दृश्यत इत्यत्रापिशब्दस्य