पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ रामचन्द्रपण्डितलतेशावास्यरहस्यविवृतिः ।।-

ॐ सत्यं ज्ञानमनन्तमीशमखिलस्यान्तर्बहिश्च स्थितं यद्रे निकटे च यच्च सकलं यत्स्वप्रथं तद्विदः । अक्षागोचरमक्षचालकमहो येनेदमाच्छादितं । स्वात्माभिन्नमुपासते विजयते रामाभिधं तन्महः ॥ १ ॥ संसारबीजान्धतमिस्रनाशसर्वात्मताबोधजितारिषद्कम् । आनन्ददं सर्वसुहृत्तमं तं सिद्धेश्वरं सद्वरुवर्यभीखें ॥ २ ॥ श्रीमच्छंकरभाष्यकृद्रुवरश्रीपादयुग्मं सदा । ध्यात्वा हृत्कमले यथास्वमति तत्सिद्धान्तसूक्तस्तथा । टीका नैकाविधा विचार्य कुरुते रामोऽथ माध्यंदिन- स्थेशाख्योपनिषद्रहस्यविवृतिं श्रीसिद्धसूनुः कृती ॥ ३ ॥

इह खलु सर्वेषां वेदानामद्वैते ब्रह्मणि पर्यवसानमिति राद्धान्तस्तच ब्रह्म यथोक्ताधिकारिणे कथनीयम् । क्रियावन्तः श्रोत्रिया बह्मनिष्ठाः स्वयं जुहृत एकGि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेतेति मुण्डकोपनिषद्युक्तत्वात् । प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय नित्यं प्रदेयमेतत्सततं मुमुक्षवे । इति वचनाच्च । स चाधिकारश्चित्तशुद्धिं विना नोत्पद्यते । चित्तशुद्धिश्चस्ववर्णाश्रमोचितकर्माचरणेनेति प्रथमं कर्मकाण्डमेकोनचत्वारिंशदध्यायैः प्रतिपादितम् । अथेदानीं चित्तशुद्धयादियथोक्तगुणवन्तमधिकारिणमुः पदेष्टुं ज्ञानकाण्डमेतेन धरमेणाध्याघेनाऽऽरभ्यते । सेयमीशावास्योपनि-षद्बह्मविद्यापराणां सहेतोः संसारस्वात्यन्तच्छेदाह्मविद्योपनिषच्छब्दवाच्या । उपनीयेममात्मानं ब्रह्मापास्तद्वयं पुनः । निहन्त्यविद्या तज्जं च तस्मादुपनिषन्मतेतिवचनाच्च । अन्तर्भावितण्यर्थस्य विशरणार्थस्य सधातोः किपि रूपम् । उप नितरां सादयति संसारहेतुभूतामविद्यां नाशयति । गत्यर्थस्य वा ब्रह्म प्रापयतीति । तदर्थप्रतिपादकग्रन्थोऽप्युपचारादुपनिषत्केवलस्य वा सदेरुपाऽऽत्मनः समीपे निषीद्ति प्रतिपादकत्वेनेत्यात्मयाथात्म्यप्रतिपादकत्वात् इति । एषां च मन्त्राणां कर्मसु न विनियोगः । आत्मयाथात्म्यप्रतिपादकत्वात् । तच्च कर्मणा विरुध्यते । न हि वक्ष्यमाणलक्षणविशिष्ट आत्मा संस्कार्यः कर्ता मोक्ता वा । यो हि