पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यदीपिका

श्वर्यज्योतिष्येवआत्मेश्वरयोर्मेदनिवारणार्थएवकारोऽनुपश्यतीशावा-स्यमित्यादिश्रवणानन्तरं मध्येवाध्यस्तानि संघणि भूतानीमानीति साक्षात्करोति ।भूतान्यध्यस्तानि निरात्मकान्यात्मनत्यन्तमिन्नानीति शङ्कां वारयति-सर्वभूतेषु चाऽऽत्मानमारमानमपि सर्वेषु मूर्तेषुः अस्तुतस्त्वहमे-वैतेषु भूतेष्ववस्थितो न मत्तोऽन्यान्येतानि भूतानीत्यर्थः । चकारोऽनुपश्य-तीति क्रियासमुच्चयार्थः। तद्दर्शनफलमोह-तत आनन्दात्मा चिदेकरसोई हमस्मि सर्वाभिन्न इति विज्ञानानन्तरं न विजुगुप्सते किमपि न निन्दतिस्तुत्तिनिन्दावान्यो भवतीत्यर्थः ॥ ६ ॥

 अत्रोपपत्तिमाह-यस्मिन्नीश्वरस्वरूप आनन्दात्मनि सर्वाणि भूतानि ।स्पष्टम् । आत्मैवामूत्स्वं स्वं रुपं परित्यज्य कल्पितमकल्पितमानन्दात्म-स्वरूपमेवाभूत् भूतानामानन्दात्मभवने कारणमाह-विजानत ईडात्मकमिदमहमस्मीति विज्ञानवतस्तत्रेडात्मविज्ञातृस्वरूपे देशकालवस्तुपरि-च्छेदशून्ये । क आक्षेपे । द्वैतभावो मोह आत्मावरणरूपः क आक्षेपेपूर्ववत् । शोको विक्षेपरूपो दुःखवृक्षस्य बीजस्वरूपः सोऽपि क आवरणविक्षेपयोरमावे स्तुतिनिन्दादिकं दुरापास्तमित्यर्थः । विजानत इतिशब्दार्थमाह-एकत्वमनुपश्यतः । स्पष्टम् । ईश्वरस्वरूपमिदं सर्वमहम-स्मीति विजानतः ॥ ७ ॥

 आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्न ईश्वरस्याप्यात्मत्वाज्जीववच्छरीरादिसंबन्धः स्यादित्याशङ्कय दृष्टान्ते साध्यवैकल्यं साध्यसमत्वं चाऽऽह-स ईश्वरस्वरूपाभिन्न आत्मा पर्यगात्परितः समन्तादधिगतवान् । शुक्रं दीप्तिमदीस्वरूपमहमस्मीति। शुक्रविशेषणानि-अकार्यकायः सूक्ष्मदेहो न विद्यते यस्य तदकायं तत्र हेतुरवणं व्रणश्छिदं भेदइत्यर्थः । न विद्यते व्रणो यस्य तद्व्रणम् । स्थूले सति सूक्ष्मस्यापिसुसंपाद्यत्वमित्यत आह–अस्त्राविरं स्त्रवानि शिरा न विद्यन्ते यस्य तद-स्नाविरं स्थूलशरीररहितमित्यर्थः । स्थूलशरीरराहित्ये हेतुः शुद्धं पुण्यपा-पादिरहितं पुण्यपापादिराहित्ये हेतुरपापविद्धं पापं दुःखहेतुरविद्या न तेन विद्धमपापविद्धं यस्मादेतादृशं शुक्रमहमस्मीतिसजीवःपर्यगात्तस्मात्सोऽप्येवंविशेषणो न तद्दष्टान्तेनेश्वरस्य संसारित्वमित्यर्थः । अने- जदादिरूपं यदुक्तमीस्वरूपं तदेवाय जीवोऽधिगन्ता पुंलिङ्गत्वेनोक्तोऽ- तस्तलिङ्गमुररीकृत्याऽऽह-कविः क्रान्तदर्यहं ब्रह्मात्माऽपेतसमस्तावि- द्योऽस्मीतिज्ञानवानित्यर्थः । मनीषी सर्वस्य हृदि सत्त्वेन मनसो निय-