पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
ईशावास्यरहस्यम् ।

तत्प्राप्तिसाधनद्वारं मन्त्रः सप्तदश स्वयम् । प्रवर्तते प्रार्थयितुमादित्यं सर्वरूपकम् ॥ २॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणो मुखम् ।। तीक्ष्णेन ज्योतिषा व्याप्तं गन्तुं नैव तु शक्यते ॥ ३ ॥ रश्मिजालं निराकृत्य द्वारं मे देहि भास्कर ।। सत्यलोकस्य सत्याख्यं ब्रह्म गन्तुं च मे प्रभो ॥ ४ ॥ भृत्यवत्त्वां नैव याचे स्वरूपोऽहं तवाच्युत । अहं ब्रह्मैव परमं भवान्ब्रह्मैव केवलम् ॥ ५ ॥ आवयोरेकता नित्यं सत्यमेतद्ववीम्यहम् ।। पूर्णत्वात्पुरुषश्चार्य योऽसावादित्यमण्डले ॥ ६ ॥ देहेन्द्रियधियां साक्षी सोऽसावहमिति स्वयम् ।। ब्रह्म वै परमं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ७ ॥ संपूर्णा निखिलस्यास्य कार्यकारणवस्तुनः ।। पुरुषोऽयं भवेदात्मा पूर्णत्वाद्योऽद्वयात्मकः ॥ ८॥ इति वाक्यं यतः शास्ति सत्यं बल्लेव केवलम् ।। ब्रह्म सत्यं परं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ ९ ॥ इति सप्तदशा मन्त्रः समासेन निरूपितः ।। सत्यस्य परमं सत्यं ब्रह्म सत्यं च पातु माम् ॥ १० ॥ ईशावास्यरहस्यं तु ब्रह्मानन्दविनिर्मितम् ।। ब्रह्मानन्दमयं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ११ ॥ बत्मैव सत्यं परमं विशुद्धं सर्वान्तरस्थं सदसद्विहीनम् । निरञ्जनं निष्कलमद्वितीयं तदेव चाहं सततं विमुक्तः ॥ १२॥

॥ इति सप्तदशो मन्त्रो व्याख्यातः ॥

ईशावास्यरहस्यं च शुकृतीर्थोत्तमे शुभे । रामानन्दसरस्वत्या लिखितं स्वात्मलुब्धये ॥

इति श्रीब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समाप्तम् ॥