इति द्वादशमन्त्रोऽपि समासार्थप्रदर्शकः । समापितः स्वयं शुद्ध ब्रहौबाहं सदद्वयम् ॥ ४ ॥
॥ इति द्वादशो मन्त्रो व्याख्यातेः ॥
एकत्वं तु न चैवास्ति रविशार्वरयोरिव ।। पृथगेव दर्शयितुं कर्मविज्ञानजं फलम् ॥ १ ॥
त्रयोदशोऽपि मन्त्रोऽयं स्वयमेव प्रवर्तते । विद्याया अन्यदेवाऽऽहुः पृथगेव फलं बुधाः ।।२।।
अविद्याया अन्यदाहुरग्निहोत्रादिकर्मणः ।। श्रुतवन्तो वयं वाक्यं धीराणां तत्त्वदर्शिनाम् ॥ ३ ॥
व्याख्यातवन्तो येऽस्मभ्यं गुरवो ब्रह्मतत्पराः । तेषां वाक्यं ब्रह्मतत्त्वबोधकं परमं ध्रुवम् ॥ ४ ॥
इति त्रयोदशो मन्त्रः पृथगर्थप्रदर्शकः । बोधको ब्रह्मतत्त्वस्य समासेन निरूपितः ॥ ५ ॥
॥ इति त्रयोदशो मन्त्रो व्याख्यातः ॥
पृथक्फलं विद्यते चेदग्निहोत्रादिकर्मणाम् । उपासनफलं चैव कथं वा क्रियते तदा ॥ १ ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । फलं सम्यक्प्रवक्तव्यं कैवल्यप्रतिपत्तये ॥ २ ॥
अग्निहोत्रं च विद्यां च देवतोपासनं परम् ।. एकीकृत्य चिन्तितं चेत्कैवल्यं लभते पदम् ॥ ३ ॥
पद्यते गम्यते चेति स्वस्वरूपं निरञ्जनम् । द्विविधं तत्परं ब्रह्म सगुणं निर्गुणात्मकम् ॥ ४ ॥
निर्गुणं वास्तवं ब्रह्म सगुणं परिकल्पितम् ।। कर्म विद्यां चैकीकृत्य यस्तद्वेदोमयं बुधः ॥ ५॥
मृत्युं तीत्व कर्मणा तु विद्ययाऽमृतमश्नुते । हिरण्यगर्ममात्मानं ब्रह्मलोकनिवासिनम् ॥ ६ ॥
तं प्राप्य तेन सार्धं तु परं ब्रह्माधिगच्छति । इत्थं चतुर्दशो मन्त्रः संक्षेपेण निरूपितः ॥ ७ ॥
॥ इति चतुर्दश मन्त्रो व्याख्यातः ॥