पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (२) ९७


यौक्तस्रुचं यातस्रुचं वा ॥ ३.२.७॥

इन्द्रमिदेवतातये (सा. २४९) इत्यत्रैक साम । इन्द्रमिदे ता (ग्राम. ७.२. २४९.१) इति चतुर्थमन्द्रादिकं यौत्त सुचम् । अथवा य त- सुचनामकम् ॥ ७॥

आत्राणि त्रीणि । वासिष्ठानि वा ॥ ३.२.८॥

इमा उ त्वा (सा. २५०) इत्यत्र सामनयोत्पत्तिः । इमाउतला- पुरूवसोगिरः (ग्राम. ७. २.२५०.१) इति मन्द्रचतुर्थादिकम् इमाउन्वा- पुरूवसोहाउ (ग्राम. ७.२.२५०. २) इति मन्द्रादिकम् । इमाउत्वापुरू (ग्राम. ७.२.२५०.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि आत्राणि एतन्नामधेयानि । अथवा वासिष्ठानि ॥ ८ ॥ वासिष्ठानि त्रीणि । आत्राणि वा ॥९॥ उदु त्ये मधुमत्तमा (सा. २५१) इत्यत्र सामनयोत्पत्तिः । उदुत्येमा (ग्राम. ७.२.२५१.१) इति मन्द्रादिकम् । उदुये धुमत्तमाः (ग्राम. ७.२.२५१.२) इति चतुर्थमन्द्रादिकम् । ह । उदुत्येमधुमत्तम (ग्राम. ७.२.२५१.३) इति तृतीयचतुर्थादिकम् । एतानि वासि.नि । अथवा आत्राणि ॥ ९॥

गोराङ्गिरसस्य सामनी द्वे । गोतमस्य वा मनाये ॥३.२.१०॥

यथा गौरो अपा कृतम् (सा. २५२) इत्यत्र सामद्वयमुत्पन्नम् । यथागौरः (ग्राम. ७.२.२५२. इति द्वितीयक्रुष्टादिकम् । ओवाओवा।