पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः


भर्गयशसी द्वे ॥६.२.२.१॥

वृहदिन्द्राय गायत (सा. २५८) इत्यत्रैक साम । हाउधामयत् इत्यादि बृहदिन्द्रायगायाता (आ. गा. २.२.१००) इति द्वितीयक्रुष्टादिकम् । तवेदिन्द्रायमं वसु (सा. २७०) इत्यत्रैक साम । हाउ (त्रिः) यशोहाउ इत्यादि तवेदिन्द्रा (आ. गा. २. २. १०१) इति द्वितीयादिकम् । एते ऋन्द्वयाश्रिते सामनी भर्गयशसी। पूर्वस्य भग इति नाम । ए भर्गा इति हि तस्य निधनम् । द्वितीयस्य यश इति नाम । यशो हाउ इति यशःशब्दस्य विद्यमानत्वात् ।। १॥

यामे द्वे ॥६.२.२.२॥

कायमानो वना त्वम् (सा. ५३) इत्यत्र सामद्वयम् । कायमानो- वनातुवाम् (आ. गा. २. २. १०२) इति द्वितीयादिकम् । औहोवा (द्विः ) इत्यादि कायमानोवनात्वम् (आ. गा. २.२.१०३) इति क्रुष्टद्वितीया- (द्वितीयक्रुष्टा?) दिकम् । एते द्वे यामे ।। २ ।।

धर्मतनू द्वे ॥६.२.२.३॥

प्रसोम देववीनये ( सा. ५१४ ) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्रसोमदेवयाइतायाइ (आ. गा. २.२.१०४) इति द्वितीयादिकम् । औहोवा इत्यादि प्रसोमदे (आ. गा. २.२. .०५) इति क्रुष्टद्वितीयादिकम् । एते द्वे धर्मतनूशब्दयुक्ते सामनी । धर्मः प्रवृत्त स्तन्वासनानृधेवृधेसुवाः इति नशेमहेसुवाः इति हि द्वयोनिधनम् ॥ ३ ॥