पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये प्रथमपर्व (६) २२५

आभित्वाशूग्नोनुमोवा (अ. गा. २. ६. ७६) इति द्वितीयक्रुष्टादिकं वसि- ष्ठस्य रथन्तरम् ॥ १० ॥

जमदग्नेश्च सप्तहम् ॥ ६.१.६.११ ॥

स्वामिद्धि हवामहे (सा. ८०९) इत्यत्रैकं साम । अयंवायाउ(त्रिः)। स्वामिद्धाइ (आ. गा. २. ६.७७) इति तृतीयादिकं जमदग्नेश्च सप्तहम् । एतन्नामधेयं साम ।। ११ ॥

पञ्च पविमन्ति महासामानि । शर्वस्य प्रथमोत्तमे । रुद्रस्य त्रीणि ॥ ६.१.६.१२॥

आक्रन्दयं कुरुघोषम् (आ. गा. २. ७. ७८ -७९ ) इत्यत्रैक साम। आक्रन्दयोवा (आ. गा. २. ७. ८०) इति द्वितीयक्रुष्टादिकम् । प्रयच्चक्रमराव्णे (आ. गा. २.७. ७९ ) इत्यत्र सामत्रयम् । हाउ (त्रिः) अस् इत्यादि प्रयच्चक्राम् (आ. गा. २.७.८१) इति द्वितीयक्रुष्टादिकम् । अभ्याभूः (त्रिः) प्रायत् । चक्रम् (आ. गा. २.७.८२) इति द्वितीय- क्रुष्टादिकम् । हाउ (त्रिः)। क्षुरोहरोहरोहरः इत्यादि प्रयच्चक्रमराव्णे (आ. गा. २. ७. ८३) इति द्वितीयक्रुष्टादिकम् । अभि त्वा शूर नोनुमः (सा. ६८०) इत्यत्रक साम । हाउ (त्रिः) वयोबृहदृतंहविर्भद्राम इत्यादि अभित्वाशूग्नोनुमोहस् (आ. गा. २.७.८४) इति द्वितीयक्रुष्टा- दिकम् । एतानि ऋक्त्रयाश्रितानि पञ्च महासामानि पविमन्ति । पविशब्द आयुर्वाची । शल्यचक्षुक्षुरशब्दाः साम्नि विद्यन्ते । ते त्वायुधवाचिनः । तस्मात्